________________
'खेज्जणा हि य'त्ति खेदनाभिः खेदसंसूचिकाभिः वाग्भिः रुदनादिभिः - रुदितप्रायाभिरुपालम्भनाभिः - युक्तमेतद्भवादृशामि - त्यादिभिरिति 'अणोहहए'त्ति अकार्ये प्रवर्त्तमानं तं हस्ते गृहीत्वा योऽपहरति - व्यावर्त्तयति तदभावादनपहर्तृकः अनपघट्टको वा वाचा निवारयितुरभावादनिवारकः, अत एव स्वच्छन्दमतिः - निरर्गलबुद्धिरत एव स्वैरप्रचारी स्वच्छन्द विहारी, 'चोज्जपसंगे'त्ति चौर्यप्रसक्तः, अथवा 'चोज्ज'ति आश्चर्येषु कुहेटकेषु प्रसक्त इत्यर्थः, 'विसमगिरिकडग कोलंबसन्निविट्ठ'त्ति विषमो योऽसौ गिरिकटकस्य - पर्वत नितम्बस्य कोलम्बः - प्रान्तस्तत्र सन्निविष्टा - निवेशिता या सा तथा, कोलम्बो हि लोकेऽवनतं वृक्षशाखाग्रमुच्यते इह चोपचारतः कटकाग्रं कोलम्बो व्याख्यातः, 'वंसीकलंकपागार परिक्खित्त'त्ति वंशीकलङ्का - वंशजालीमयी वृत्तिः सैव प्राकारस्तेन परिक्षिप्ता - वेष्टिता या सा तथा, पाठान्तरे तु वंशीकृतप्राकारेति, 'छिन्नसेलविसमप्पवायपरिहोवगूढ' त्ति छिन्नोविभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता - गर्त्ताः त एव परिखा तयोपगूढा - वेष्टिता या सा तथा, एकद्वारा - एक प्रवेश निर्गममार्गा, 'अणेगखंडि 'त्ति अनेकनश्यन्नरनिर्गमापद्वारा विदितानामेव प्रतीतानां जनानां निर्ग - मप्रवेशौ यस्यां हेरिकादिभयात् सा तथा, अभ्यन्तरे पानीयं यस्याः सा तथा, सुदुर्लभं जलं पर्यन्तेषु - बहिः पार्श्वेषु यस्याः सा तथा, सुबहोरपि 'कूवियबलस्स' त्ति मोपव्यावर्त्तकसैन्यस्यागतस्य दुष्प्रध्वंस्या, वाचनान्तरे पुनरेवं पठ्यते ' जत्थ चउरंगबलनिउत्तावि कूवियबला यमहियपवरवीरघाइयनिवडियचिन्धधयवडया कीरंति'त्ति, अत्र चतुर्णामङ्गानां हस्त्यश्वरथपदातिलक्षणानां | यद्वलं -सामर्थ्यं तेन नियुक्तानि - नितरां सङ्गतानि यानि तानि तथा, 'कूवियबल' त्ति निवर्त्तकसैन्यानीति, 'अधम्मिए' ति अधर्मेण चरतीत्यधार्मिकः, यावत्करणात् 'अधम्मिट्ठे' अधर्मिष्टोऽतिशयेन निर्द्धर्म्मा निस्वंशकर्मकारित्वात्, 'अधम्मकखाई' अधर्ममा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org