________________
ज्ञाताधर्मकथाङ्गम्. ॥ ४ ॥
सत्यावपातं 'सत्य सेवं' सेवायाः सफलीकरणात् 'सन्निहियपाडिहेरे' विहितदेवताप्रातिहार्य 'जागसहस्स भागपडिच्छए' यागाः - पूजा विशेषा ब्राह्मणप्रसिद्धास्तत्सहस्राणां भागम् - अंशं प्रतीच्छति आभाव्यखात् यत्तत्तथा 'बहुजणो अच्चेइ आगम्म पुण्णभद्दं चेइअं । से णं पुण्णभद्दे चेइए एक्केणं महया वणसंडेण सङ्घओ समता संपरिखित्ते' सर्वतः - सर्वदिक्षु समन्तात् - विदिक्षु च 'से णं वणसंडे किन्हे किण्होभासे' कृष्णावभासः - कृष्णप्रभः कृष्ण एव वाग्वभासत इति कृष्णावभासः, 'नीले नीलोभासे' प्रदेशान्तरे 'हरिए हरिओमासे' प्रदेशान्तर एव तत्र नीलो मयूरगलवत् हरितस्तु शुकपिच्छवत्, हरितालाभ इति वृद्धाः, 'सीए सीओ भासे' शीतः स्पर्शापेक्षया पल्याद्याक्रान्तखादिति वृद्धाः, 'निद्धे निद्धोभासे' खिग्धो न तु रूक्षः, 'तिचे तिघोभासे' तीव्रो वर्णादिगुणप्रकर्षवान्, 'किण्हे किण्हच्छाए' इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि - कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवं 'नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए निद्धे निद्धच्छाए तिघे तिबच्छाए घणकडियकडिच्छाए' अन्योऽन्यं शाखानुप्रवेशाद्वहलनिरन्तरच्छायः 'रम्मे महामेह निकुरंबभूए' महामेघवृन्दकल्पे इत्यर्थः, 'ते णं पायवा मूलमंतो कंदमंतो' कन्दो - मूलानामुपरि 'खंधमंतो' स्कन्धः - स्थुडं 'तयामंतो' सालमंतो शाला- शाखा 'पवालमंतो' प्रवाल:- पल्लवाङ्कुरः, 'पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो' 'अणुपुत्र सुजायरुइलवट्टभावपरिणया' आनुपूव्येण - मूलादिपरिपाट्या सुष्ठु जाता रुचिराः वृत्तभावं च परिणता ये ते तथा 'एक्कखंधा अणेगसाला अणेग साहप्पसाहविडिमा' अनेकशाखा प्रशाखो विटपस्तन्मध्यभागो वृक्षविस्तारो येषां ते तथा 'अणेगणरवामसुप्पसारियअगेज्झघणविपुलवहखंधा' अनेकाभिर्नरवामाभिः सुप्रसारिता भिरग्राह्यो
Jain Educatinational
For Personal & Private Use Only
१ उत्क्षि
साध्य० पूर्णभद्रवर्णनं सू. २ कोणिकवर्णनं सू. ३
॥ ४ ॥
V.jainelibrary.org