________________
-
॥
|मारेण 'संस्तुता' कृता प्रसाधिता माया, तया च मायया लोका नियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिरस्ति, अतो मायैषा यथाऽयं मृतः, तथा चायं लोकः 'अशाश्वतः' अनित्यो विनाशीति गम्यते ॥ ७ ॥ अपि च
माहणा समणा एगे, आह अंडकडे जगे। असो तत्तमकासी य, अयाणंता मुसं वदे ॥ ८॥ 'ब्राह्मणा' धिग्रजातयः 'श्रमणा' त्रिदण्डिप्रभृतयः 'एके' केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, वदन्ति च यथा-जगदेतच्चराचरमण्डेन कृतमण्डकृतं अण्डाजातमित्यर्थः, तथाहि ते वदन्ति-यदा न किश्चिदपि वस्वासीत्-पदार्थशून्योऽयं संसारः तदा ब्रह्माऽस्खण्डमसृजत् , तसाच क्रमेण वृद्धात्पश्चाविधाभावमुपगतादूर्वाधोविभागोऽभूत् , तन्मध्ये च सर्वाः प्रकृतयोऽभूवन , एवं पृथिव्यतेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरभूदिति, तथा चोक्तम्-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः॥१॥" एवंभूते चामिन् जगति 'असौ ब्रह्मा, तस्य भावस्तत्वंपदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत् कृतवानिति । ते च ब्राह्मणादयः परमार्थमजानानाः सन्तो मृषा वदन्त एवं | वदन्ति-अन्यथा च स्थितं तत्त्वमन्यथा प्रतिपादयन्तीत्यर्थः॥८॥ अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाह| सएहिं परियाएहिं, लोयं बूया कडेति य।तत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥ ९॥
'स्वक' स्वकीयैः 'पर्यायैः' अभिप्रायैयुक्तिविशेषैः अयं लोकः कृत इत्येवम् 'अब्रुवन्' अभिहितवन्तः, तद्यथा-देवोप्तो ||||
सूत्रकृ.८
For Personal & Private Use Only
Stainelibrary.org