________________
Feeeeeeeeeeeeeeeo
तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से०॥ (सूत्रं ७९)॥
पुनरपि गौतमस्खाम्युदकं प्रतीदमाह-तद्यथा-बहुभिः प्रकारैस्त्रससद्भावः संभाव्यते, ततश्चाशून्यस्तैः संसारः, तदशून्यत्वे ९ न निर्विषयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं । तदधुना बहुप्रकारत्रससंभूत्याशून्यतां संसारस दर्शयति-भगवानाह | 'सन्ति' विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति, तेषां चेदमुक्तपूर्व भवति–संभाव्यते च श्रावकाणामेवं-18 | भूतस्य वचसः संभव इति, तद्यथा-न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं, किंतु ? वयं णमिति वाक्यालङ्कारे चतुर्दश्यष्टमीपौर्णमासीषु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो 'द्विविध मिति कृतकारितप्रकारद्वयन अनुमतेः श्रावकस्याप्रतिषिद्धत्वात् तथा 'त्रिविधेने ति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खल' इति वाक्यालङ्कारे मदर्थ पचनपाचनादिकं पोषधस्थस्य मम कृते मा कोष्ट, तथा परेण मा कारयत, तत्राप्यनुमतावपि सर्वथा यदसंभव तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्तापीखानाखा च पौषधोपेतबादासन्दीपीठिकातः प्रत्यारुह्य अवतीयं सम्यक् पोषधं गृहीखा कालं. | कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यक्तकाला उतासम्यगिति, कथं वक्तव्यं स्यादिति , एवं पृष्टनिग्रन्थरव-॥ |श्यमेवं वक्तव्यं स्यात्-सम्यकालगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पनश्च त्रस एव, ततश्च कथं
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International