________________
तद्यथा-गृहस्थाः यतीनामन्तिके समागत्य धर्म श्रुत्वा सम्यक्त्वं प्रतिपद्य तदुत्तरकालं संजातवैराग्याः प्रव्रज्यां गहीत्वा पुनस्तथाविधकर्मोदयात्तामेव त्यजन्ति, ते च पूर्व गृहस्थाः सर्वारम्भप्रवृत्तास्तदारतः प्रजिताः सन्तो जीवोपमईपरित्यक्तदण्डाः पुनः प्रवज्यापरित्यागे सति नो परित्यक्तदण्डाः, तदेवं तेषां प्रत्याख्यातॄणां यथावस्थात्रयेऽप्यन्यथात्वं भवत्येवं त्रसस्थावरयोरपि द्रष्टव्यम् , | एतच्च 'भगवं च णमुदाहु'रित्यादेग्रन्थस्य 'से एवमायाणियवं' इत्येतत्पर्यवसानस्य तात्पर्य, अक्षरघटना तु सुगमेति खबुद्ध्या , कार्या ॥ तदेवं द्वितीयं दृष्टान्तं प्रदाधुना तृतीयं दृष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाह-'भगवं चणं उदाहु इत्यादि, यावत् से एवमायाणियत्वं ति उत्तानार्थ । तात्पर्यार्थस्त्वयं-पूर्व परिव्राजकादयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याः साधूनां संभोग्याः संवृत्ताः पुनस्तदभावे त्वसंभोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोजनीयमिति ॥ तदेवं दृष्टान्तत्रये प्रथम दृष्टान्ते हन्तव्यविषयभूतो यतिगृहस्थभावेन पर्यायभेदो दर्शितो द्वितीये दृष्टान्ते प्रत्याख्यातृविषयगतो गृहस्थयतिपुनर्गृहस्थभेदेन पर्यायभेदः प्रदर्शितः, तृतीये तु दृष्टान्ते परतीर्थिकसाधुभावोनिष्क्रमणभेदेन संभोगासंभोगद्वारेण पर्यायभेदो व्यवस्थापित इति । तदेवं दृष्टान्तप्राचुर्येण निर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह
भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुत्वं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, वयं णं चाउद्दसट्टमुद्दिपुण्णिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पञ्चक्खाइस्सामो, एवं थूलगं मुसावायं थूलगं अदिन्नादाणं थूलगं मेहुणं थूलगं परिग्गहं पच्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिवि
Meeeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
uiww.jainelibrary.org