________________
eeseel
सूत्रकृताङ्गे | एवमतो लब्धः-उपलब्धोऽर्थः-परमार्थरूपो येन स लब्धार्थो ज्ञाततत्त्व इत्यर्थः, तथा गृहीतः-खीकृतोऽर्थो-मोक्षमार्गरूपो येन ७ नाल२ श्रुतस्क- स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः ततोऽभिगतः-पृष्टनिर्वचनतः प्रतीतोऽर्थो । न्दीयाध्य. न्धे शीला- | येन सोभिगतार्थः, तथास्थिमिञ्जा-अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्खवासितान्तश्वेता इतियावत् , ङ्कीयावृत्तिः एतदेवाविर्भावयन्नाह–'अयमाउसो'इत्यादि, केनचिद्धर्मसर्वस्खं पृष्टः सन्नेतदाचष्टे, तद्यथा-भो आयुष्मन्निदं नैर्ग्रन्थं मौनीन्द्र॥४०८॥
प्रवचनमर्थः-सद्भूतार्थः तथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः, कपतापच्छेदैरस्यैव शुद्धखेन निर्घटितखात् , शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्वगुणाविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्य
ग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-'उस्सिय'इत्यादि, उच्छ्रुतं-प्रख्यातं स्फटिकवनिर्मलं यशो यस्यासावुच्छ्रित॥ स्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथा प्रावृतम्-अस्थगितं द्वारं-गृहमुखं यस्य सोप्रावृतद्वारः, इदमुक्तं भवति-गृहं 8
प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्खाच्यावयितुं शक्यत इति-81 | यावत् , तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि |भाण्डागारान्तःपुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यगुणवेनास्वलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथिपदिष्टासु-महाकल्याणकसंबन्धितया पुण्यतिथिखेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः, एवंभूतेषु धर्म
॥४०॥ दिवसेषु सुष्टु-अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहविशेषस्तं प्रतिपूर्णम्-आहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषध| मनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति । साम्प्रतं तस्यैवोत्तरगुणख्या
dan Education International
For Personal & Private Use Only
www.jainelibrary.org