________________
सूत्रकृताङ्गे यथावस्थिततत्त्वाविर्भावको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणा न कंचिद्गामः काणकुण्टोद्घट्टनादिप्रकारेण, ६आर्द्रका २ श्रुतस्क-18 केवलं स्वपरखरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावने परापवादः, तथा चोक्तम्-"नेत्रनिरीक्ष्य बिलकण्टककीटसर्पान् , ध्ययन न्धे शीला- सम्यक् पथा व्रजति तान्परिहृत्य सर्वान् । कुज्ञानकुथुतिकुमार्गकुदृष्टिदोषान् , सम्यविचारयत कोत्र परापवादः ॥१॥" इत्यादि। कीयावृत्तिः
यदिवैकान्तवादिनामेव-अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं-परस्परगर्हाख्यो दोषो, | ॥३९२॥
नासाकमनेकान्तवादिनां, सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् । एतदेव श्लोकपश्चार्द्धन दर्शयति-वत' इति, स्वद्रव्यक्षेत्रकालभावैरस्ति, तथा 'परत' इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगभं दूषयन्तो गर्हामोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपण-18 तस्तु रागद्वेषविरहान्न किश्चिद्गर्हाम इति स्थितम् ॥ १२॥ एतदेव स्पष्टतरमाह-न कश्चन श्रमणं ब्राह्मणं वा स्वरूपेण-जुगुप्सिताङ्गावयवोद्घट्टनेन जात्या तल्लिङ्गग्रहणोद्घट्टनेन वा 'अभिधारयामो' गर्हणाबुद्ध्योद्घयामः, केवलं 'स्वदृष्टिमार्ग' तदभ्युपगतं दर्शनं 'प्रादुष्कुर्मः' प्रकाशयामः, तद्यथा-"ब्रह्मा लूनशिरा हरिदृशि सरुग्व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक सोमः कलङ्काङ्कितः । खर्नाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥१॥"इत्यादि । एतच्च तैरेव वागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयिखा स्वपक्षसाधनार्थ श्लोकपश्चार्द्धनाह-अयं 'मार्गः पन्थाः सम्यग्दर्शनादिकः 'कीर्तितो व्यावर्णितः, कैः ?-'आर्यैः' सर्वस्त्याज्यधर्मदूरवतिभिः, किंभूतो धर्मो ?-नासादुत्तरः-प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतखाद्यथावस्थितजीवादिपदार्थस्वरूपनिरूपणाच, १ ब्रजत प्र० क्रियाऽभिव्याहारे तप्रत्ययः लुड्वा । २ काणकुण्टादि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org