________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः
॥३३१॥
लान् मधुमद्यमांसपरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो 'वैरायतनानि' वैरानुबन्धान् अनुप्रसूय-- उत्पाद्य विधाय तथा 'संचयित्वा' संचिन्त्योपचित्य 'बहूनि ' प्रभूततरकालस्थितिकानि 'क्रूराणि' क्रूरविपाकानि नरकादिषु यातना - स्थानेषु क्रकचपाटन शाल्मल्यवरोहण तप्तत्र पुपानात्मकानि कर्माण्यष्टप्रकाराणि वद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽपादित बहुवचनरूपयेति संबन्धः । अस्मि | नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह - 'से जहाणामए' इत्यादि, तद्यथा नामायोगोलकः - अयस्पिण्डः 'शिलागोलको' वृत्ताश्मश| कलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य - अतिलङ्घयाधो धरणीतलप्रतिष्ठानो भवति । अधुना दार्शन्तिकमाह - 'एवमेवे'त्यादि, यथाऽसावयोगोलको वृत्तत्वाच्छीघ्रमेवाधो यात्येवमेव तथाप्रकारः पुरुषजातः, तमेव लेशतो दर्शयति-वज्रवद्वत्रं गुरु| खात्कर्म तद्वहुलः- तत्प्रचुरो बध्यमानककर्मगुरुरित्यर्थः तथा धूयत इति धृतं प्राग्वद्धं कर्म तत्प्रचुरः, पुनः सामान्येनाह - | पङ्कयतीति प - पापं तद्बहुलः, तथा तदेव कारणतो दर्शयितुमाह- 'वैरबहुलो' वैरानुबन्धप्रचुरः, तथा 'अपत्तियं'ति मनसो | दुष्प्रणिधानं तत्प्रधानः, तथा दम्भो - मायया परवञ्चनं तदुत्कटः, तथा निकृतिः - माया वेषभाषापरावृत्तिच्छद्मना परद्रोहबुद्धिस्तन्मयः, तथा 'सातिबहुल' इति सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तद्बहुलः- तत्करणप्रचुरः, तथा | अयश: - अश्लाघा असद्वृत्ततया निन्दा, यानि यानि परापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु करचरणच्छेदनादिषु अयशोभाग्भवतीति, स एवंभूतः पुरुषः 'कालमासे' खायुषः क्षये कालं कृत्वा पृथिव्याः - रत्नप्रभादिकायास्तलम् 'अतिवर्त्य' | योजन सहस्रपरिमाणमतिलङ्घय नरकतलप्रतिष्ठानोऽसौ भवति || नरकखरूपनिरूपणायाह
Jain Education International
For Personal & Private Use Only
२ क्रियास्थानाध्य अधमेपक्ष
वन्तः
॥३३१॥
www.jainelibrary.org