SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरिज्ञानमवगन्तव्यम् ॥ तथा मन्त्रविशेषरूपा विद्याः, तद्यथा-दुर्भगमपि सुभगमाकरोति सुभगाकरां, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकरां, तथा गर्भकरां-गर्भाधान विधायिनी, तथा मोहो-व्यामोहो वेदोदयो वा तत्करणशीलामाथर्वणीमाथर्वणाभिधानां सद्योऽनर्थकारिणी विद्यामधीयते, तथा पाकशासनीम् [आथर्वणीम् ] इन्द्रजालसं|ज्ञिका तथा नानाविधैर्द्रव्यैः-कणवीरपुष्पादिभिर्मधुघृतादिभिर्वोच्चाटनादिकैः कायोमो-हवनं यस्यां सा द्रव्यहवना तां, तथा क्षत्रियाणां विद्या धनुर्वेदादिकापरा वा या खगोत्रक्रमेणायाता तामधीत्य प्रयुञ्जते, तथा नानाप्रकारं ज्योतिषमधीत्य व्यापार| यतीति दर्शयति-'चंदचरिय' मित्यादि, चन्द्रस्य-ग्रहपतेश्चरितं चन्द्रचरितमिति, तच वर्णसंस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहा|दिकं, सूर्यचरितं खिद-मूर्यस्य मण्डलपरिमाणराशिपरिभोगोद्योतावकाशराहूपरागादिकं, तथा शुक्रचारो-वीथीत्रयचारादिकः, तथा बृहस्पतिचारः शुभाशुभफलप्रदः संवत्सरराशिपरिभोगादिकश्च, तथोल्कापाता दिग्दाहाश्च वायव्यादिषु मण्डलेषु भवन्तः शस्त्रा| निक्षुत्पीडाविधायिनो भवन्ति, तथा मृगा-हरिणशृगालादय आरण्यास्तेषां दर्शनरुतं ग्रामनगरप्रवेशादौ सति शुभाशुभं यत्र चिन्त्यते तन्मृगचक्रं, तथा वायसादीनां पक्षिणां यत्र स्थानदिक्खराश्रयणात् शुभाशुभफलं चिन्त्यते तद्वायसपरिमण्डलं, तथा पांसुकेशमांसरुधिरादिवृष्टयोऽनिष्टफलदा यत्र शास्त्रे चिन्त्यन्ते तत्तदभिधानमेव भवति, तथा विद्या नानाप्रकाराः क्षुद्रकर्मकारि-10 ण्यः, ताश्चेमाः-वैताली नाम विद्या नियताक्षरप्रतिबद्धा, सा च किल कतिभिर्जपैर्दण्डमुत्थापयति, तथार्धवैताली तमेवोपशमयति,18 ॥ तथाऽप(व)स्वापिनी तालोद्घाटनी श्वपाकी शाम्बरी तथाऽपरा द्राविडी कालिङ्गी गौरी गान्धार्यवपतन्युत्पतनी जृम्भणी स्तम्भनी । || श्लेषणी आमयकरणी विशल्यकरणी प्रक्रामण्यन्तर्धानकरणीत्येवमादिका विद्या अधीयते, आसां चार्थः संज्ञातोऽवसेय इति, 00000000000000000000000 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy