________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३१२॥
दंडपुरकडे अहिए इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहणे पिढिमंसि यावि भवति, एवं २ क्रिया। खलु तस्स तप्पत्तियं सावजंति आहिजति, दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिए ॥ सूत्रम् २६॥ स्थाना० अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पो मातापितृसुहृत्वजनादिभिः सार्ध
मित्रद्वेषः परिवसंस्तेषां च मातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लघुतमेऽप्यपराधे वाचिके दुर्वचनादिके तथा कायिके हस्तपादादिके संघट्टनरूपे कृते सति स्वयमेव-आत्मना क्रोधाध्मातो गुरुतरं 'दण्डं' दुःखोत्पादकं 'निवर्तयति' करोति, तद्यथा-शीतोदके 'विकटे' प्रभूते शीते वा शिशिरादौ तस्य' अपराधकर्तुः कायमधो बोलयिता भवति, तथोष्णोदकविकटेन 'कार्य' शरीर-ISL मपसिञ्चयिता भवति, तत्र विकटग्रहणादुष्णतेलेन काञ्जिकादिना वा कायमुपतापयिता भवति, तथा अनिकायेन उल्मुकेन तप्तायसा वा कायमुपदाहयिता भवति, तथा योत्रेण वा वेत्रेण वा नेत्रेण वा 'त्वचा वा' सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडनतः 'तस्य' अपराधकर्तुः 'शरीरपााणि उद्दालयितुं' ति चर्माणि लुम्पयितुं भवति, तथा दण्डादिना कायमुपताडयिता भवतीति । तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथाप्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्मनसस्तदनिष्टाशङ्कया भवन्ति, तसिंश्च 'प्रवसति' देशान्तर गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति । तथाप्रकारश्च पुरु-18 पजातोऽल्पेऽप्यपराधे महान्तं दण्डं कल्पयतीति, एतदेव दर्शयितुमाह-दण्डस्य पार्श्व दण्डपार्श्व तद्विद्यते यस्यासौ दण्डपार्थी ख-18 |ल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति । तमप्यतिगुरुमिति दर्शयितुमाह-दण्डेन गुरुको दण्डगुरुको यस्य च दण्डो | महान् भवति असौ दण्डेन गुरुर्भवति, तथा दण्डः पुरस्कृतः सदा पुरस्कृतदण्ड इत्यर्थः, स चैवंभूतः खस्स परेषां च 'अस्मिन् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org