SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ तथा नियतेः स्वभाववानियतस्वभावयाऽनया भवितव्यं न नानास्वभावयेति, एकखाच नियतेस्तत्कार्येणाप्येकाकारेणैव भ-18 वितव्यं, तथा च सति जगद्वैचिच्याभावः, न चैतदृष्टमिष्टं वा । तदेवं युक्तिभिर्विचार्यमाणा नियतिर्न कथञ्चिद् घटते, यदप्युक्तंद्वावपि तौ पुरुषी क्रियाक्रियावादिनौ तुल्यौ, एतदपि प्रतीतिबाधितं, यतस्तयोरेकः क्रियावाद्यपरस्वक्रियावादीति कथमनयोस्तुल्यखम् , अथैकया नियत्या तथानियतखात्तुल्यता अनयोः, एतच्च निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणखात्, अप्रमाणसं च प्राग्लेशतः प्रदर्शितमेव, यदप्युक्तं यदुःखादिकमहमनुभवामि तन्नाहमकार्षमित्यादि, तदपि बालवचनप्रायं, यतो(यत्) जन्मान्तरकृतं शुभमशुभं वा तदिहोपभुज्यते, खकृतकर्मफलेश्वरखादसुमतां, तथा चोक्तं-'यदिह क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसि तेषु वृक्षेषु, फलं शाखासु जायते ॥१॥" तथा-'यदुपात्तमन्यजन्मनि शुभमशुभं वा खकर्म परिणत्या । तच्छक्यमन्यथा नो 18 कर्तुं देवासुरैरपि हि ॥२॥" तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नास्तमेव नियुक्तिकं नियतिवादं श्रद्दधानास्तमेव च प्रतीयन्ते , इत्यादि तावन्नेयं यावदन्तरा कामभोगेषु विषण्णा इति चतुर्थः पुरुषजातः समाप्तः॥ साम्प्रतमुपसंजिघृक्षुराह-'इत्येते' पूर्वोक्तास्तज्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृखनियतिवादपक्षाश्रयिणश्चखारः पुरुषा नानाप्रकारा प्रज्ञा-मतिर्येषां ते तथा नाना-भिन्नश्छन्दः| अभिप्रायो येषां ते तथा, नानाप्रकारं शीलम्-अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः-दर्शनं येषां ते तथा, नानारूपा रुचिः चेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भो-धर्मानुष्ठानं येषां ते तथा, नानाप्रकारेण-परस्परभिन्नेनाध्यवसायन संयुक्ता धर्मार्थमुद्यताः, ग्रहीणः-परित्यक्तः पूर्वसंयोगो-मातृपितृकलत्रपुत्रसंबन्धो यैस्ते तथा, तथा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यों १ परकारणनिरपेक्षत्वेन खाभाविकखात् । २ एकरूपया। Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy