SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ree सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाडीयावृत्तिः ॥२८५॥ चैव, दृश्यते जलचन्द्रवद् ॥१॥" इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते । 'इह खलु ||१ पुण्डरीइत्यादि, इहैव-पुरुषजातप्रस्तावे, खलुशब्दो वाक्यालङ्कारे, प्राच्यादिषु दिक्ष्वन्यतमस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात् , तद्यथा- काध्य राजानमुद्दिश्य तावद्यावत्स्वाख्यातः सुप्रज्ञप्तो धर्मो भवति ॥ स चायम्-इह खलु धर्माः-स्वभावाश्चेतनाचेतनरूपाः पुरुष-ईश्वर आ इश्वरकारत्मा वा कारणमादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एवोत्तरं-कार्य येषां ते पुरुषोत्तराः, तथा णिका पुरुषेण प्रणीताः सर्वस्य तदधिष्ठितखात् तदात्मकखाद्वा, तथा पुरुषेण द्योतिताः-प्रकाशीकृताः प्रदीपमणिसूर्यादिनेव घटपटादय । | इति । ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरस| स्पर्शा अमूर्तिमतां च धर्माधर्माकाशानां गत्यादिका धर्माः, सर्वेऽपीश्वरकृता आत्माद्वैतवादे वाऽऽत्मविवर्ताः, सर्वेऽप्येते पुरुषमे| वाभिभूय-अभिव्याप्य तिष्ठन्ति । अस्मिन्नर्थे दृष्टान्तानाविर्भावयन्नाह-'से जहाणामए' इत्यादि, सेशब्दस्तच्छब्दार्थे, नामशब्दः | संभावनायां, तद्यथा नाम गण्डं 'स्याद्' भवेत् , संभाव्यते च शरीरिणां संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे जातं-शरीरजातं शरीरावयवभूतं, तथा शरीरे वृद्धिमुपगतं- शरीराभिवृद्धौ च तस्याभिवृद्धिः, तथा शरीरेऽभिसमन्वागतं-शरीरमाभिमुख्येन व्याप्य व्यवस्थितं, न तदवयवोऽपि शरीरात्पृथग्भूत इति भावः, तथा शरीरमेवाभिभूय-आभिमुख्येन पीडयित्वा ॥२८५॥ तिष्ठति, यदिवा तदुपशमे शरीरमेवाश्रित्य तद्गण्डं तिष्ठति न शरीरादहिर्भवति, एतदुक्तं भवति-यथा तत्पिटकं शरीरैकदेशभूतं न । युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेवामी धर्माश्चेतनाचेतनरूपास्ते सर्वेऽपीश्वरकतका न ते ईश्वरात्पृथक्कतुं पार्यन्ते, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy