________________
ॐ नमः श्रीवीतरागाय ॥ अथ श्रीद्वितीये सूत्रकृतांगे द्वितीयः श्रुतस्कन्धः।
"प्रथमश्रुतस्कन्धानन्तरं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरश्रुतस्कन्धे योऽर्थः समासतोऽभिहितः असा|| वेवानेन श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते, त एव विधयः सुसंगृहीता भवन्ति येषां समासव्यासाभ्यामभिधानमिति, ||
यदिवा पूर्वश्रुतस्कन्धोक्त एवार्थोऽनेन दृष्टान्तद्वारेण सुखावगमार्थ प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्य श्रुतस्कन्धस्य सम्बन्धीनि सप्त महाध्ययनानि प्रतिपाद्यन्ते, महान्ति च तान्यध्ययनानि, पूर्वश्रुतस्कन्धाध्ययनेभ्यो महत्त्वादेतेषामिति, तत्र महच्छब्दाध्ययनशब्दयोनिक्षेपार्थ नियुक्तिकृदाहणामंठवणादविए खेत्ते काले तहेव भावे य । एसो खलु महतंमि निक्खेवो छब्बिहो होति ॥ १४२॥ णामंठवणादविए खेत्ते काले तहेव भावे य । एसो खलु अज्झयणे निक्खेवो छव्विहो होति ॥ १४३ ॥ णामंठवणादविए खेत्ते काले य गणण संठाणे । भावे य अहमे खलु णिक्खेवो पुंडरीयस्स ॥१४४ ॥ जो जीवो भविओ खलुववज्जिकामो य पुंडरीयंमि । सो व्वपुंडरीओ भावंमि विजाणओ भणिओ ॥ १४५॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org.