SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ति, तुशब्दादन्यदप्युपाङ्गादिकं द्रष्टव्यं, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकस्तत्राप्याद्यं पदं तस्यापि प्रथममक्षरम् , एवंविधो बहुप्रकारो भावादिष्टव्य इति । तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्यापि ककारो, द्वादशानां खङ्गानामाचाराङ्गमादिस्तस्यापि शस्त्रपरिज्ञाध्ययनमस्यापि च जीवोद्देशकस्तस्यापि 'सुर्य'ति पदं तस्यापि सु| कार इति, अस्य च प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आयुद्देशकश्लोकपादपदवर्णादिर्द्रष्टव्य इति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्__ जमतीतं पडुपन्नं, आगमिस्सं च णायओ । सवं मन्नति तं ताई, दसणावरणंतए ॥१॥ अंतए वितिगिच्छाए, से जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होइ तहिं तहिं ॥२॥ तहिं तहिं सुयक्खायं, से य सच्चे सुआहिए । सया सच्चेण संपन्ने, मित्तिं भूएहिँ कप्पए ॥ ३॥ भूएहिं न विरुज्झेजा, एस धम्मे बुसीमओ । बुसिमं जगं परिन्नाय, अस्सि जीवितभावणा ॥४॥ अस्य चानन्तरसूत्रेण संबन्धो वक्तव्यः, स चायं, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽर्हति तथोक्तं समाधि भाषितुं, यश्च | यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भापितुमर्हति नान्य इति । परम्परसूत्रसंबन्धस्तु य एवातीतानागतवर्तमान-| कालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतदुध्येतेत्यादिकः संबन्धोऽपरसूत्रैरपि स्वबुद्धा लगनीय इति । तदेवं प्रतिपादितसंबन्धस्यास्य सूत्रस्य व्याख्या प्रस्तूयते—यत्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतम्-एष्यत्कालभावि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy