SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ अथ ग्रन्थनामकं चतुर्दशमध्ययनं प्रारभ्यते।। गंथो पुबुदिहा वादविहो गहणे आसेवणण या मूलगुणे पंचावतो दुविहो गहणे उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने याथातथ्यमिति सम्यकचारित्रम| भिहितं, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्यागश्चानेनाध्ययनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्याध्यय| नस्य चखार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-सबाह्याभ्यन्तरग्रन्थपरित्यागो वि-18 | धेय इति । नामनिष्पन्ने तु निक्षेपे आदानपदाद्गुणनिष्पन्नखाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाह गंथो पुबुद्दिट्टो दुविहो सिस्सो य होति णायव्यो । पव्वावण सिक्खावण पगयं सिक्खावणाए उ ॥ १२७॥ |सो सिक्खगो य दुविहो गहणे आसेवणाय णायव्यो । गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य ॥१२८॥ आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे य । मूलगुणे पंचविहो उत्तरगुण बारसविहो उ ॥ १२९॥ आयरिओऽविय दुविहो पवावंतो व सिक्खवंतो य । सिक्खावंतो दुविहो गहणे आसेवणे चेव ॥ १३०॥ गाहावितो तिविहो सुत्ते अत्थे य तदुभए चेव । मूलगुण उत्तरगुणे दुविहो आसेवणाए उ ॥ १३१॥ ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो 'द्विविधो' द्विप्रकारो ज्ञातव्यो भव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy