________________
eaoneroceaeaseeeeao2000000
'ये केचन व्यन्तरभेदा राक्षसात्मानः, तद्ग्रहणाच सर्वेऽपि व्यन्तरा गृह्यन्ते तथा यमलौकिकात्मानः, अ(म्बाम्ब)म्बादयस्तदुपलक्षणात्सर्वे भवनपतयः तथा ये च 'सुरा' सौधर्मादिवैमानिकाः, चशब्दाज्ज्योतिष्काः सूर्यादयः, तथा ये 'गान्धर्वा' विद्याधरा व्यन्तरविशेषा वा, तद्ग्रहणं च प्राधान्यख्यापनार्थ, तथा 'कायाः पृथिवीकायादयः षडपि गृह्यन्त इति । पुनरन्येन प्रकारेण | सत्त्वान्संजिघृक्षुराह—ये केचन 'आकाशगामिन' संप्राप्ताकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः, तथा ये |च 'पृथिव्याश्रिताः पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि खकृतकर्मभिः पुनः पुनर्विविधम्-अनेकप्रकारं पर्यासं
परिक्षेपमरहट्टघटीन्यायेन परिभ्रमणमुप–सामीप्येन यान्ति-गच्छन्तीति ॥ १३ ॥ किश्चान्यत्—'यं' संसारसागरम् आहुः-उ|क्तवन्तस्तीर्थकरगणधरादयस्तद्विदः, कथमाहुः ?-खयम्भुरमणसलिलौघवदपारं, यथा स्वयम्भुरमणसलिलौधो न केनचिजलचरेण स्थलचरेण वा लवयितुं शक्यते एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लवयितुं न शक्यत इति दर्शयति-'जानीहि' | अवगच्छ णमिति वाक्यालङ्कारे, भवगहनमिदं-चतुरशीतियोनिलक्षप्रमाणं यथासम्भवं सङ्ग्येयासयेयानन्तस्थितिकं दुःखेन मु
च्यत इति दुर्मोक्षं-दुरुत्तरमस्तिवादिनामपि, किं पुनर्नास्तिकानाम् ?, पुनरपि भवगहनोपलक्षितं संसारमेव विशिनष्टि-'यत्र' | यसिन् संसारे सावद्यकर्मानुष्ठायिनः कुमार्गपतिता असत्समवसरणग्राहिणो 'विषण्णा' अवसक्ता विषयप्रधाना अङ्गना विषयाङ्गनास्ताभिः, यदिवा विषयाश्चाङ्गनाश्च विषयाङ्गनास्ताभिर्वशीकृताः सर्वत्र सदनुष्ठानेऽवसीदन्ति, त एवं विषयाङ्गनादिके पङ्के विषण्णा 'द्विधाऽपि' आकाशाश्रितं पृथिव्याश्रितं च लोकं, यदिवा स्थावरजङ्गमलोकं 'अनुसंचरन्ति' गच्छन्ति, यदिवा-'द्विधा
SO902030204039392002292009
dain Education International
For Personal & Private Use Only
www.janelibrary.org