________________
तो ज्ञाने सति भवति बनयिकवादं निराचिका एवं विचिन्तय मृपावादित्वमिति वायभूतो वा संयमावाल्यो मोक्षमार्गः सत्यतया विनयप्रतिपस्या
न्ति । अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच्च सत्यवादस्य, अतो ज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, तदभावाच्च तेषां मृषावादित्वमिति ॥२॥ साम्प्रतं वैनयिकवादं निराचिकीर्षः प्रक्रमते-सद्भ्यो हितं 'सत्यं परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदुपायभूतो वा संयमः सत्यं तदसत्यम् 'इति' एवं 'विचिन्तयन्तो मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः, तथाहि-सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपत्त्या साधुम् 'इति' एवम् 'उदाहरन्तः प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात् , क एते इत्येतदाह-ये 'इमें बुद्ध्या प्रत्यक्षासन्नीकृता 'जना इव' प्राकृतपुरुषा इव जना विनयेन चरन्ति वैनयिका-विनयादेव केवलात्स्व
मोक्षावाप्तिरित्येवंवादिनः 'अनेके' बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषां, ते च विनयेचारिणः केनचिद्धर्मार्थिना पृष्टाः सन्तोऽपिश-118 ब्दादपृष्टा वा "भावं' परमार्थ यथार्थोपलब्धं वाभिप्राय वा विनयादेव वर्गमोक्षावाप्तिरित्येवं 'व्यनैषुः' विनीतवन्तःसर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तम्"तसात्कल्याणानां सर्वेषां भाजनं विनय" इति ॥३॥ किंचान्यत्-संख्यानं संख्या-परिच्छेदः उप-सामीप्येन संख्या उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया-अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः खाग्रह अस्ता इति एतद्-यथा विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्युदाहृतवन्तः, एतच्च ते महामोहाच्छा१ समुच्चयार्थत्वात्तच्छब्देनानुविचिन्त्य भाषणपरामर्शः । २ ०कारिणः । ३ . लम्भं प्र० ।
eeeeeeeeeeeeeeeeeesel
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org