SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुत ॥१९५॥ "बायाली सेसणसंकडंमि गहणंमि जीव ! नहु छलिओ । इण्हि जह न छलिजसि भुंजतो रागदोसेहिं ॥ १ ॥ " तत्रापि रागस्य प्राधान्यख्यापनायाह-न मूर्छितोऽमूर्च्छितः सकृदपि शोभनाहारलाभे सति गृद्धिमकुर्वन्नाहारयति, तथा अनध्युपपन्नस्तमेवाहारं पौनःपुन्येनानभिलषमाणः केवलं संयमयात्रापालनार्थमाहारमाहारयेत्, प्रायो विदितवेद्यस्यापि विशिष्टाहारसन्निधावभिलाषातिरेको जायत इत्यतो मूर्छितोऽनभ्युपपन्न इति च प्रतिषेधद्वयमुक्तम् उक्तं च - "भुत्तभोगो पुरा जोऽवि, गीयत्थोऽवि य भाविओ । संतेसाहारमाईसु, सोऽवि खिप्पं तु खुम्भइ ॥ १ ॥” तथा संयमे धृतिर्यस्यासौ धृतिमान्, तथा सबाह्याभ्यन्तरेण ग्रन्थेन विमुक्त:, तथा पूजनं वस्त्रपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्यासौ पूजनार्थी तदेवंभूतो न भवेत् तथा श्लोक:श्लाघा कीर्तिस्तगामी न तदभिलाषुकः परिव्रजेदिति, कीर्त्यर्थी न काञ्चन क्रियां कुर्यादित्यर्थः ॥ २३ ॥ अध्ययनार्थमुपसंजिष्टक्षुराह – गेहान्निःसृत्य 'निष्क्रम्य च' प्रव्रजितोऽपि भूखा जीवितेऽपि निराकाङ्क्षी 'कार्य' शरीरं व्युत्सृज्य निष्प्रतिकर्मतया | चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत्, तथा न जीवितं नापि मरणमभिकाङ्गेत् 'भिक्षुः' साधुः 'वलयात्' संसारवलयाकर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत् इतिः परिसमात्यर्थे, ब्रवीमीति पूर्ववत् ॥ २४ ॥ इति समाध्याख्यं दशममध्ययनं समाप्तं ॥ " 100000 १ द्विचत्वारिंशदेषणादोषसंकटे गहने जीव ! नैव छलितः । इदानीं यदि न छल्यसे भुञ्जन् रागद्वेषाभ्यां ( तदा सफलं तत् ) ॥ १ ॥ २ भुक्तभोगः पुरा योऽपि गीतार्थोऽपि च भावितः । सत्खाहारादिषु सोऽपि क्षिप्रमेव क्षुभ्यति ॥ १ ॥ Jain Education International For Personal & Private Use Only १० समाध्यध्ययनं. ॥१९५॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy