________________
|ऽपि ज्ञानदर्शनचारित्रभेदात् त्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यपि पंचधैवेति ॥ तत्र ज्ञानदर्शनचारित्रवतां साधूनां यो धर्मस्तं दर्शयितुमाह
पासत्थोसण्णकुसील संथवो ण किर वहती काउं । सूयगडे अज्झयणे धम्मंमि निकाइतं एवं ॥ १०२ ॥ साधुगुणानां पार्श्वे तिष्ठन्तीति पार्श्वस्थाः तथा संयमानुष्ठानेऽवसीदन्तीत्यवसन्नाः तथा कुत्सितं शीलं येषां ते कुशीलाः एतैः पार्श्वस्थादिभिः सह संस्तवः - परिचयः सहसंवासरूपो न किल यतीनां वर्त्तते कर्तुम्, अतः सूत्रकृतेऽङ्गे धर्माख्येऽध्ययने एतत् 'निकाचितं' नियमितमिति ।। गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् - कयरे धम्मे अक्खाए, माहणेण मतीमता ? । अंजु धम्मं जहातचं जिणाणं तं सुणेह मे ॥ १ ॥ | माहणा खत्तिया वेस्सा, चंडाला अदु बोक्कसा । एसिया वेसिया सुद्दा, जे य आरंभणिस्सिया ॥ २ ॥ | परिग्गहनिविद्वाणं, वेरं तेसिं पवडई | आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥ ३ ॥ आघायकिच्चमाहेउं, नाइओ विसएसिणो । अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं किञ्चती ॥ ४ ॥
जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह - तद्यथा - ' कतरः' किम्भूतो दुर्गतिगमनधरणलक्षणो धर्मः 'आख्यातः ' प्रतिपादितो 'माहणेणं' ति मा जन्तून् व्यापादयेत्येवं विनेयेषु वाक्प्रवृत्तिर्यस्यासौ 'माहनो' भगवान् वीरवर्धमान स्वामी तेन ?, तमेव विशिनष्टि-मनुते - अवगच्छति जगत्रयं कालत्रयोपेतं यया सा केवलज्ञानाख्या मतिः सा अस्यास्तीति मतिमान् तेन - उत्पन्नकेवल
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org