SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ कश्चिद्विपमिश्रं भोजनं भुक्खा पश्चात्तत्र कृतावेगाकुलितोऽनुतप्यते, तद्यथा-किमेतन्मया पापेन साम्प्रतक्षिणा सुखरसिकतया विपाककटुकमेवम्भूतं भोजनमास्वादितमिति, एवमसावपि पुत्रपौत्रदुहितजामातृस्वसभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्मतयाधिचिकित्साचिन्ताकुलोऽपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं तद्व्यापारव्याकुलितमतिः परितप्यते, तदेवं अनन्तरोक्तया नीत्या विपाकं खानुष्ठानस्य 'आदाय' प्राप्य, विवेकमिति वा कचित्पाठा, तद्विपाकं विवेक Ke वा 'आदाय'-गृहीखा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धं 'संवासो' वसतिरेकत्र 'न कल्पते' न युज्यते, कमिन्-'द्रव्यभूते मुक्तिगमनयोग्ये रागद्वेषरहिते वा साधौ, यतस्ताभिः सार्ध संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति ॥१०॥ स्त्रीसम्बन्धदोषानुपदर्योपसंहरन्नाहतम्हा उ वजए इत्थी, विसलित्तं व कंटगं नच्चा।ओए कुलाणि वसवत्ती, आघाते ण सेवि णिग्गंथे॥११॥४॥ जे एयं उंछं अणुगिद्धा, अन्नयरा हुँति कुसीलाणं।सुतवस्सिएवि से भिक्खू, नो विहरे सह णमित्थीसु।१२। __यसात् विपाककटुः स्त्रीभिः सह सम्पर्कस्तस्मात्कारणात् स्त्रियो वर्जयेत् तुशब्दात्तदालापमपि न कुर्यात् , किंवदित्याह-विषो पलिस कण्टकमिव 'ज्ञात्वा' अवगम्य स्त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवे भग्नः सन्ननर्थमापादयेत् स्त्रि| यस्तु सरणादपि, तदुक्तम्-"विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः सरणादपि ॥१॥" Poe0099999000000000000 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy