SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थं स्त्रीपरिज्ञाध्ययनं प्रारभ्यते ॥ उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां च प्रायोऽनुकूला दुःसहाः, ततोऽपि स्वीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चवार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतो.धिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनाधिकारः प्राग्वत् नियुक्तिकृता 'थीदोषविवज्जणा चेवे'त्यनेन स्वयमेव प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र नियुक्तिकृदेव भणिष्यति, साम्प्रतं निक्षेपः, स चौघनामसूत्रालापकभेदात्रिधा, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने 'स्त्रीपरिज्ञेति नाम, तत्र नामस्थापने क्षुण्णखादनात्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थमाह दव्वाभिलावचिंधे वेदे भावे य इत्थिणिक्खेवो । अहिलावे जह सिद्धी भावे वेयंमि उवउत्तो॥५६॥ तत्र द्रव्यस्त्री द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकृखा, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्रिधा, एकभविका बद्धायुष्काभिमुखनामगोत्रा चेति, चियते-ज्ञायतेऽनेनेति चिह्नं-स्त१ व्यतिरिक्तभेदाः। सामना in Educ a tors For Personal & Private Use Only " ww.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy