________________
सूत्रकृताङ्गं शीलाङ्काचाीयवृ
३ उपसगोध्य० उद्देशः ३
त्तियुतं
॥ ९४॥
Decececeaeoeaeeeeeeeeeseces
गच्छेत् , तेन पराविरोधकारणेन तत्तदविरुद्धमनुष्ठानं वचनं वा 'समाचरेत् कुर्यादिति ॥ १९ ॥ तदेवं परमतं निराकृत्योपसं-12 हारद्वारेण खमतस्थापनायाह-'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् 'आदाय उपादाय गृहीखा 'काश्यपेन' श्रीमन्महावीरवर्द्धमानखामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्षदि प्रकर्षण-यथावस्थितार्थनिरूपणद्वारेण वेदितं प्रवेदितं, चशब्दात्परमतं च निराकृत्य, भिक्षणशीलो भिक्षुः 'ग्लानस्य' अपटोरपरस भिक्षोयावृत्त्यादिकं कुर्यात् , कथं कुर्याद् ?, एतदेव विशि-12 नष्टि-खतोऽप्यग्लानतया यथाशक्ति 'समाहितः समाधि प्राप्त इति, इदमुक्तं भवति यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति ॥ २० ॥ किं कृत्वैतद्विधेयमिति दर्शयितुमाह-'संखाये' त्यादि, संख्याय-ज्ञात्वा के ?-'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्राख्य| भेदभिन्नं 'पेशलम्' इति सुश्लिष्टं प्राणिनामहिंसादिप्रवृत्त्या प्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शनं दृष्टिः सद्भूतपदार्थगता | | सम्यग्दर्शनमित्यर्थः सा विद्यते यस्यासौ दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवानित्यर्थः, तथा 'परिनिर्वृतो रागद्वेषविरहाच्छान्ती| भूतस्तदेवं धर्म पेशलं परिसंख्याय दृष्टिमान् परिनिर्वृत उपसर्गाननुकूलप्रतिकूलान्नियम्य-संयम्य सोढा, नोपसगैरुपसर्गितोऽ|समञ्जसं विदध्यादित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत् परि-समन्तात् व्रजेत्-संयमानुष्ठानोद्युक्तो भवेत् परिव्रजेद, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २१ ॥ उपसर्गपरिज्ञायास्तृतीयोद्देशकः समाप्तः ॥३॥
॥९४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org