________________
|पर्यायाः, भेदाश्च तिर्यङ्मनुष्योपसर्गादयः नामादयश्च तत्त्वव्याख्यां तु निर्युक्तिकृदेव गाथापश्चार्द्धेन दर्शयति - अपरस्माद्दिव्यादेः आगच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति ॥ क्षेत्रोपसर्गानाह
खेत्तं बहुओघपयं कालो एगंतदूसमादीओ । भावे कम्मन्भुदओ, सो दुविहो ओघुवक्कमिओ ॥ ४६ ॥ यस्मिन् क्षेत्रे बहून्योघतः–सामान्येन पदानि — क्रूर चौराद्युपसर्गस्थानानि भवन्ति तत्क्षेत्रं बहोघपदं, पाठान्तरं वा 'बदोघभयं' बहून्योघतो भयस्थानानि यत्र तत्तथा, तच्च लाढादिविषयादिकं क्षेत्रमिति, कालस्त्वेकान्तदुष्पमादिः, आदिग्रहणात् यो यस्मिन् | क्षेत्रे दुःखोत्पादको ग्रीष्मादिः स गृह्यत इति, कर्मणां - ज्ञानावरणीयादीनामभ्युदयो भावोपसर्ग इति, स च उपसर्गः सर्वोऽपि | सामान्येन औघिकौपक्रमिकभेदात् द्वेधा, तत्रौषिको शुभकर्मप्रकृतिजनितो भावोपसर्गो भवति, औपक्रमिकस्तु दण्डकशाशस्त्रा| दिनाऽसातावेदनीयोदयापादक इति ॥ तत्रौधिक पक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याह
उवक्कमिओ संयमविग्धकरे तत्थुवक्कमे पगयं । दव्वे चउब्विहो देवमणुयतिरियायसंवेत्तो ॥ ४७ ॥
उपक्रमणमुपक्रमः, कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थः, एतच्च यद्द्रव्योपयोगात् येन वा द्रव्येणा सातावेदनीयाद्यशुभं कर्मोदीर्यते यदुदयाच्चाल्पसत्त्वस्य संयमविघातो भवति अत औपक्रमिक उपसर्गः संयमविघातकारीति, इह च यतीनां मोक्षं प्रति प्रवृत्तानां संयमो मोक्षाङ्गं वर्तते तस्य यो विघ्नहेतुः स एवात्राधिक्रियत इति दर्शयति-तत्र - औघिकौपक्रमिकयोरौपक्रमिके
Jain Education International
For Personal & Private Use Only
167w.jainelibrary.org