SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeeeeeeeeeeex 'एवम् अनन्तरोक्तमार्गानुष्ठानेनानन्ताः 'सिद्धा' अशेषकर्मक्षयभाजः संवृत्ता विशिष्टस्थानभाजो वा, तथा 'सम्प्रति वर्तमाने काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे वा अनागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भावार्थः ॥२१॥ एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः स्खशिष्येभ्यः प्रतिपादयतीत्याह-एवं से इत्यादि 'एवम्' उद्देशकत्र|| याभिहितनीत्या 'स' ऋषभखामी खपुत्रानुद्दिश्य 'उदाहृतवान्' प्रतिपादितवान् , नास्योत्तरं-प्रधानमस्तीत्यनुत्तरं तच्च त|ज्ज्ञानं च अनुत्तरज्ञानं तदस्यास्तीत्यनुत्तरज्ञानी तथाऽनुत्तरदर्शी, सामान्यविशेषपरिच्छेदकावबोधस्वभाव इति, बौद्धमतनिरासद्वारेण ज्ञानाधारं जीवं दर्शयितुमाह-'अनुत्तरज्ञानदर्शनधर' इति कथञ्चिद्भिन्नज्ञानदर्शनाऽऽधार इत्यर्थः, 'अर्हन' सुरेन्द्रादिपूजा) ज्ञातपुत्रो वर्द्धमानखामी ऋषभस्वामी वा 'भगवान्' ऐश्वर्यादिगुणयुक्तो विशाल्यां नगर्या वर्द्धमानोऽस्माकमाख्यातवान् , ऋषभस्वामी वा विशालकुलोद्भवखाद्वैशालिकः, तथा चोक्तम्-"विशाला जननी यस्य, विशालं कुलमेव वा । विशालं प्रवचनं चास्य, तेन वैशालिको जिनः ॥१॥" एवमसौ जिन आख्यातेति । इतिशब्दः परिसमाप्त्यर्थो, ब्रवीमीति उक्तार्थो, नयाः पूर्ववदिति ॥ २२ ॥ तृतीय उद्देशकः समाप्तः, तत्समाप्तौ च समाप्तं द्वितीयं वैतालीयमध्ययनं ॥ १(वचनं) यस्य प्र. dain Education Mentonal For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy