________________
६ दुःखं 'रोगः' ज्वरादिः 'आतङ्कः' सद्यः प्राणहारी शूलादिस्तत्र समुत्पद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वाऽसंयतः
कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्यज्यात् तथेषन्म्रक्षयेद्वा पुनश्च स्नान-सुगन्धिद्रव्यसमुदयः, कल्कः-कपायद्रव्यक्वाथः, लोभ्रं-प्रतीतं, वर्णकः-कम्पिल्लकादिः, चूर्णो यवादीनां पद्मक-प्रतीतम् , इत्यादिना द्रव्येण ईषत्पुनः || पुनर्वा घर्षयेत् , घृष्ट्वा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत् , ततश्च शीतोदकेन वा उष्णोदकेन वा 'उच्छोलेज'त्ति ईषदुच्छोलनं विदध्यात् प्रक्षालयेत्, पुनः पुनः स्नानं वा-सोत्तमाङ्गं कुर्यात्सिञ्चेद्वेति, तथा दारुणा वा दारूणां परिणामं कृत्वा-संघर्ष कृत्वाऽग्निमुज्वालयेत्प्रज्वालयेद्वा, तथा च कृत्वा साधुकायम् 'आतापयेत्' सकृत् प्रतापयेत्पुनः पुनः । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते ससागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति ॥
आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स इह खलु गाहावई वा जाव कम्मकरी वा अन्नमन्नं अकोसंति वा पचंति वा रुंभंति वा उद्दविंति वा, अह भिक्खूणं उच्चावयं मणं नियंछिज्जा, एए खलु अन्नमन्नं अक्कोसंतु वा मा वा
अकोसंतु जाव मा वा उद्दविंतु, अह भिक्खूणं पुब्व० जं तहप्पगारे सा० नो ठाणं वा ३ चेइज्जा ॥ (सू०६८) कर्मोपादानमेतद्भिक्षोः ससागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति, तानेव दर्शयति-'इह' इत्थंभूते प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्युः, तथा च कुर्वतो दृष्ट्वा स साधुः कदाचिदुच्चावचं मनः| कुर्यात् , तत्रोच्चं नाम मैवं कुर्वन्तु, अवचं नाम कुर्वन्त्विति, शेषं सुगममिति ॥
आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सयट्ठाए अगणिकायं उज्जालिज्जा वा
dain Education International
For Personal & Private Use Only
www.janelibrary.org