SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आ. सू. ६१ Jain Education International 'स्थानं' कायोत्सर्गः 'शय्या' संस्तारकः 'निषीधिका' स्वाध्यायभूमिः 'णो चेइज्ज' त्ति नो चेतयेत् -नो कुर्यादित्यर्थः ॥ एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति ॥ साम्प्रतं प्रतिश्रयगतानुगमादिदोषान् विभणिषुराह - 'सः' भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा - 'अस्सिंपडियाए त्ति एतत्प्रतिज्ञया एतान् साधून् प्रतिज्ञाय - उद्दिश्य प्राण्युपमर्देन साधु प्रतिश्रयं कश्चिच्छ्राद्धः कुर्यादिति । एतदेव दर्शयति - एकं साधर्मिकं 'साधुम् अर्हत्प्रणीतधर्मानुष्ठायिनं | सम्यगुद्दिश्य - प्रतिज्ञाय प्राणिनः 'समारभ्य' प्रतिश्रयार्थमुपमर्द्य प्रतिश्रयं कुर्यात्, तथा तमेव साधुं सम्यगुद्दिश्य 'क्रीतं' मूल्येनावाप्तं, तथा 'पामिच्चं 'ति अन्यस्मादुच्छिन्नं गृहीतम् ' आच्छेद्यमिति भृत्यादेर्बलादाच्छिद्य गृहीतम् 'अनिसृष्टं' स्वामिनाऽनुत्सङ्कलितम् ' अभ्याहृतं ' निष्पन्नमेवान्यतः समानीतम् एवंभूतं प्रतिश्रयम् ' आहृत्य' उपेत्य 'चेएइ त्ति साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति ॥ एवं बहुवचनसूत्रमपि नेयम् ॥ तथा साध्वीसूत्रमप्येकवचनबहुवचनाभ्यां नेयमिति ॥ किञ्च -सूत्रद्वयं पिण्डेषणानुसारेण नेयं, सुगमं च ॥ तथास भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा - भिक्षुप्रतिज्ञया 'असंयतः' गृहस्थः प्रतिश्रयं कुर्यात् स चैवंभूतः स्यात्, तद्यथा - 'कटकितः' काष्ठादिभिः कुद्ध्यादौ संस्कृतः 'उक्कंबिओ'त्ति वंशादिकम्बाभिरवबद्धः 'छन्ने वत्ति दर्भा| दिभिश्छादितः लिप्तः गोमयादिना घृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेवनिकादिना समीकृतः 'संसृष्टः ' भूमिकर्मादिना संस्कृतः 'संप्रधूपितः' दुर्गन्धापनयनार्थं धूपादिना धूपितः, तदेवंभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy