SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नानात्वं, स्वच्छत्वाच्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभाव इति, आसां चैषणाना यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति ॥ साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिपन्नेन वा यद्विधेयं तद्दर्शयितुमाह___ इचयासिं सत्तण्हं पिंडेसणाणं सत्तण्हं पाणेसणाणं अन्नयरं पडिमं पडिवजमाणे नो एवं वइजा-मिच्छापडिवन्ना खलु एए भयंतारो, अहमेगे सम्म पडिवन्ने, जे एए भयंतारो एयाओ पडिमाओ पडिवजित्ता णं विहरति जो य अहमंसि एयं पडिमं पडिवजित्ताणं विहरामि सव्वेऽवि ते उ जिणाणाए उवट्ठिया अनुन्नसमाहीए, एवं च णं विहरति, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गिय ॥ (सू० ६३) २-१-१-११ पिण्डैषणायामेकादश उद्देशकः ॥ इत्येतासां सप्तानां पिण्डैषणानां पानैषणानां वाऽन्यतरां प्रतिमां प्रतिपद्यमानो नैतद्वदेत्, तद्यथा-'मिथ्याप्रतिपन्नाः' न सम्यक् पिण्डैपणाद्यभिग्रहवन्तो भगवन्तः-साधवः, अहमेवैकः सम्यक्प्रतिपन्नो, यतो मया विशुद्धः पिण्डैष णाभिग्रहः कृत एभिश्च न, इत्येवं गच्छनिर्गतेन गच्छान्तर्गतेन वा समदृष्ट्या द्रष्टव्याः, नापि गच्छान्तर्गतेनोत्तरोत्तरपिताण्डैषणाभिग्रहवता पूर्वपूर्वतरपिण्डैषणाभिग्रहवन्तो दृष्या इति, यच्च विधेयं तद्दर्शयति य एते भगवन्तः-साधव एताः 'प्रतिमाः' पिण्डैषणाद्यभिग्रहविशेषान् 'प्रतिपद्य' गृहीत्वा ग्रामानुग्राम 'विहरन्ति' यथायोगं पर्यटन्ति, यां चाहं प्रतिमा प्रतिपद्य विहरामि, सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा 'समुत्थिताः' अभ्युद्यतविहारिणः संवृत्ताः, ते चान्योऽन्यसमाधिना यो यस्य गच्छान्तर्गतादेः समाधिरभिहितः, तद्यथा-सप्तापि गच्छवासिना, तन्निर्गतानां तु द्वयोरग्रहः पञ्चस्वभिग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy