SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥३४६॥ जानीयात् , तद्यथा-'तिलोदक' तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम् ४, एवं तुषैर्यवैर्वा ५-६, तथा 'आचाम्लम्' श्रुतस्कं०२ अवश्यानं ७, 'सौवीरम्' आरनालं ८ 'शुद्धविकटं' प्रासुकमुदकम् ९, अन्यद्वा तथाप्रकारं द्राक्षापानकादि 'पानकजातं' चूलिका १ पानीयसामान्यं पूर्वमेव 'अवलोकयेत्' पश्येत्, तच्च दृष्ट्वा तं गृहस्थम् अमुक! इति वा भगिनि! इति वेत्यामन्यैवं पिण्डैष०१ ब्रूयाद्-यथा दास्यसि मे किञ्चित्पानकजातं?, स परस्तं भिक्षुमेवं वदन्तमेवं ब्रूयाद्-यथा आयुष्मन् ! श्रमण! त्वमेवेदं उद्देशः७ पानकजातं स्वकीयेन पतग्रहेण टोप्परिकया कटाहकेन वोत्सिश्यापवृत्त्य वा पानकभाण्डकं गृहाण, स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति ॥ किञ्च से भिक्खू वा० से जं पुण पाणगं जाणिज्जा-अणंतरहियाए पुढवीए जाव संताणए उद्धटु २ निक्खित्ते सिया, असंजए भिक्खुपडियाए उदउल्लेण वा ससिणिद्धेण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोइत्ता आहट्ट दलइज्जा, तहप्पगारं पाणगजायं अफासुयं० एयं खलु सामग्गिय० ॥ (सू० ४२)॥ पिण्डैषणायां सप्तमः २-१-१-७।। स भिक्षुर्यदि पुनरेवं जानीयात् तत्सानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुद्भुत्योद्धृत्य 'निक्षिप्तं' व्यवस्थापितं स्यात् , यदिवा स एव 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य 'उदकाट्टैण' गलद्विन्दुना 'सस्निग्धेन' गलदुदकबिन्दुना 'सकपायेण' सचित्तपृथिव्याद्यवयवगुण्ठितेन 'मात्रेण' भाजनेन | शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकार पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णी-| यात्, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ प्रथमस्य सप्तमः समाप्तः ॥२-१-१-७॥ K॥३४६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy