________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥३३९॥
आयुष्मन्तः! श्रमणाः! अयमाहारश्चतुर्विधोऽपि 'भे' युष्मभ्यं सर्वजनार्थ मया निसृष्टो-दत्तस्तत्साम्प्रतं स्वरुच्या तमा- श्रुतस्क०२ हारमेकत्र वा भुड्नध्वं परिभजध्वं वा-विभज्य वा गृहीतेत्यर्थः, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, दुर्भिक्षे वा- |चूलिका १ ध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृह्णीयाद् , गृहीत्वा च नैवं कुर्याद् यथा तमाहारं गृहीत्वा तूष्णीको गच्छ- पिण्डैष०१ नेवमुत्प्रेक्षेत-यथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्ममैवैकस्य स्याद् , एवं च मातृस्थानं संस्पृशेद्, अतो नैवं उद्देशः ५ | कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्तिके गच्छेद् , गत्वा च सः 'पू. वमेव' आदावेव तेषामाहारम् 'आलोकयेत्' दर्शयेत्, इदं च ब्रूयाद्-यथा भो आयुष्मन्तः! श्रमणादयः! अयमश-| नादिक आहारो युष्माकं सर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टो-दत्तस्तद्यूयमेकत्र भुध्वं विभजध्वं वा, 'से' अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयाद्-यथा भो आयुष्मन् ! श्रमण ! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात् , अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति-स भिक्षुर्विभाजयन्नात्मनः 'खद्धं २' प्रचुरं २ 'डागंति शाकम् 'ऊसढं'ति उच्छ्रितं वर्णादिगुणोपेतं, शेषं सुगमं यावद्क्षमिति न गृह्णीयादिति । अपि च 'स' भिक्षुः 'तत्र' आहारे-10 |ऽमूर्छितोऽगृद्धोऽनादृतोऽनध्युपपन्न इति, एतान्यादरख्यापनार्थमेकाथिकान्युपात्तानि कथञ्चिद्देदाद्वा व्याख्यातव्या-| नीति, बहुसम मिति सर्वमत्र समं किञ्चित्सिक्थादिना यद्यधिकं भवेदिति, तदेवं प्रभूतसमं परिभाजयेत् , तं च साधु
॥३३९॥ परिभाजयन्तं कश्चिदेवं ब्रूयाद्, यथा-आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोक्ष्यामहे पास्यामो वा, तत्र परतीर्थिकैः सार्द्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभिः सह सम्भोगिकैः सहोघा
dain Education International
For Personal & Private Use Only
www.jainelibrary.org