________________
श्रीआचा- स भिक्षुः क्वचिद्रामादौ भिक्षार्थ प्रविष्टः सन् यद्येवंभूता सङ्खडिं जानीयात् तत्प्रतिज्ञया नाभिसंधारयेद् गमनाये
श्रुतस्कं०२ राङ्गवृत्तिः त्यन्ते क्रिया, यादृग्भूतां च सङ्खडिं न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानं यस्यां सा मांसादिका तामिति, इद- चूलिका १ (शी०) || मुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायां वा निवृत्तौ मांसप्रचुरां सङ्खडिं कुर्युः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव पिण्डैष०१
किश्चिन्नयेत्, तच्च नीयमानं दृष्ट्वा न तत्र गन्तव्यं, तत्र दोषान् वक्ष्यतीति, तथा मत्स्या आदौ प्रधानं यस्यां सा तथा, उद्देशः४ ॥३३४॥
एवं मांसखलमिति, यत्र सङ्खडिनिमित्तं मांसं छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत्, एवं मत्स्यखलमपीति, तथा 'आहेणं'ति यद्विवाहोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रियते, 'पहेणं ति वध्वा नीयमा|नाया यत्पितगृहभोजनमिति, "हिंगोलं'ति मृतकभक्तं यक्षादियात्राभोजनं वा, 'संमेलं'ति परिजनसन्मानभक्तं गोष्ठीभक्तं
वा, तदेवंभूतां सङ्घडिं ज्ञात्वा तत्र च केनचित्स्वजनादिना तन्निमित्तमेव किञ्चिद् 'हियमाणं' नीयमानं प्रेक्ष्य तत्र भिक्षार्थ || न गच्छेद् , यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च दर्शयति-गच्छतस्तावदन्तरा-अन्तराले 'तस्य' भिक्षोः || |'मार्गाः' पन्थानो बहवः प्राणा:-प्राणिनः-पतङ्गादयो येषु ते तथा, तथा बहुबीजा बहुहरिता बहवश्याया बहूदका बहूत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानकाः, प्राप्तस्य च तत्र सङ्कडिस्थाने बहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपागता उपागमिष्यन्ति तथोपागच्छन्ति च, तत्राकीर्णा चरकादिभिः 'वृत्तिः' वर्त्तनम् अतो न तत्र प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्तिः कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्त्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, न तत्र ||॥३३४॥ जनाकीर्णे गीतवादित्रसम्भवात् स्वाध्यायादिक्रियाः प्रवर्त्तन्त इति भावः, स भिक्षुरेवं गच्छगतापेक्षया बहुदोषां तथाप्रकारां ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org