________________
अस्मरणाच्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा-स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः' अध्युपपन्नः 'क्लीवे वा' नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षुम् 'उपसक्रम्य' आसन्नीभूय ब्रूयात् , तद्यथा-आयुष्मन् ! श्रमण ! त्वया सहै
कान्तमहं प्रार्थयामि, तद्यथा-आरामे वोपाश्रये वा कालतश्च रात्री वा विकाले वा, तं भिक्षु ग्रामधः-विषयोपभोगगतैबाापारैनियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने ।
वा कुत्रचिद्रहसि मिथुनं-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मेति तस्य धर्माः-तद्गता व्यापारास्तेषां परियारणा-आसेवना जातया 'आउट्टामो त्ति प्रव महे, इदमुक्तं भवति-साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात् , तां चैकः कश्चिदे
काकी वा 'साइजेजत्ति अभ्युपगच्छेत् , अकरणीयमेतद् एवं 'सङ्घयाय' ज्ञात्वा सङ्खडिगमनं न कुर्याद्, यस्मातानि 'आयतनानि' कर्मोपादानकारणानि 'सन्ति' भवन्ति 'संचीयमानानि' प्रतिक्षणमुपचीयमानानि, इदमुक्तं भवति-अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतो निर्ग्रन्थस्तथाप्रकारां स
डिं पुरःसङ्खडिं पश्चात्सङ्घडि वा सङ्कडिं ज्ञात्वा सङ्खडिप्रतिज्ञया 'नाभिसंधारयेद् गमनाय' गन्तुं न पर्यालोचयेदित्यर्थः॥ तथा
से भिक्खू वा २ अन्नयरिं संखडिं सुच्चा निसम्म संपहावइ उस्सुयभूएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेयरेहि कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारित्तए, माइहाणं संफासे, नो एवं करिजा ॥ से तत्थ कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहार आहारिजा॥ (सू. १६)
सू. ५६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org