SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मिचं वा अच्छिज्जं वा अणिसिटुं वा अभिहडं वा आहटू दिजमाणं भुंजिज्जा ॥ स भिक्षुः 'पर' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्ड्यन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्कडिस्तां ज्ञात्वा तत्पतिज्ञया। नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् ॥ यदि पुनामेषु परिपाच्या पूर्वप्रवृत्तं गमन तत्र च सङ्खडिं परिज्ञाय यद्विधेयं तदर्शयितुमाह स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि संखडि जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत् , अथ प्रतीचीनां जानीयात्ततःप्राचीनं गच्छेत् , एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् ?–'अनाद्रियमाणः' सङ्कडिमनादरयन्नित्यर्थः, एतदुक्तं भवति-यत्रैवासौ सङ्खडिः स्यात्तत्र न गन्तव्यमिति, क्व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात् , करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेटं, कर्बट-कुनगरं, सर्वतोऽर्द्धयोजनात्सरेण स्थितग्राम मडम्ब पत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरः-ताम्रादेरुसत्तिस्थानं, द्रोणमुखं यस्य जलस्थलपथावुभावपि, निगमा-वणिजस्तेषां स्थानं नैगमम् , आश्रमं यत्तीर्थस्थानं, राजधानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र प्रभूतानां भाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्खडिप्रतिज्ञया न गमनम् 'अभिसंधारयेत्' न पर्यालोचयेत् , किमिति ?, यतः केवली ब्रूयात् 'आदानमेतत्' कर्मोपादानमेतदिति, पाठान्तरं वा 'आययणमेय'ति आयतनं-स्थानमेतद्दोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति दर्शयति-'संखडि संखडिपंडियाए'त्ति, या या सङ्खडिस्तां ताम् 'अभिसन्धारयतः' तत्प्रतिज्ञया गच्छतः साधोरवश्यमे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy