________________
' तथा ' तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो - निसङ्गस्तस्य, तथा परिज्ञानं परिज्ञा - सदसद्विवेकस्तया चरितुं | शीलमस्येति परिज्ञाचारी - ज्ञानपूर्व क्रियाकारी तस्य, तथा धृतिः - समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम् - असातावेदनीयोदयस्तदुदीर्ण सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थं वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ? - 'समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति ॥ ८ ॥ साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याह
से हु परिन्नासमयंमि वट्टई, निराससे उवरय मेहुणा चरे । भुयंगमे जुन्नतयं जहा चए, विमुञ्चई से दुहसिज माहणे ॥ ९ ॥ 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डेषणाध्ययनार्थकरणोद्युक्तः परिज्ञासमये वर्त्तते, तथा 'निराशंसः' ऐहिकामुष्मिकाशंसारहितः, तथा मैथुनादुपरतः अस्य चोपलक्षणत्वादपर महाव्रतधारी च तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चुकं | मुक्त्वा निर्मलीभवति एवं मुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति ॥ ९ ॥ समुद्राधिकारमधिकृत्याहजमाहु ओहं सलिलं अपारयं, महासमुहं व भुयाहि दुत्तरं । अहे य णं परिजाणाहि पंडिए, से हु मुणी अंतकडेत्ति च्चाई ॥ १० ॥ '' संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा किम्भूतम् ? - ओधरूपं, तत्र द्रव्यौघः सलिलप्रवेशो भावौघ आस्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर 'पण्डितः' सदसद्विवेकज्ञः, स च मुनिरेवंभूतः | कर्मणोऽन्तकृदुच्यते ॥ १० ॥ अपिच
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org