________________
सचिचाणि वा कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु कड़ित्तु वा कडावित्तु वा तेइच्छं आउट्टाविज नो तं सा० २ कडुवेयणा पाणभूयजीवसत्ता वेयणं वेइंति, एयं खलु० समिए सया जए सेयमिणं मन्निज्जासि (सू० १७३)
त्तिबेमि ॥ छट्ठओ सत्तिक्कओ ॥२-२-६॥ 'से' तस्य साधोः स परः शुद्धनाशुद्धेन वा 'वाग्बलेन' मन्त्रादिसामर्थ्येन चिकित्सा' व्याध्युपशमम् ‘आउट्टे'त्ति कर्नुमभिलषेत्। तथा स परो ग्लानस्य साधोश्चिकित्सार्थ सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत् तच्च 'नास्वादयेत्' नाभिलषेन्मनसा, एतच्च भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्त्वास्तत्कर्मविपाकजां वेदनामनुभवन्तीति, उक्तञ्च-"पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सहगणयित्वा यद्यदायाति सम्यक् , सदसदिति बिवेकोऽन्यत्र भूयः कुतस्ते ? ॥ १॥" शेषमुक्तार्थ यावदध्ययनपरिसमाप्तिरिति ॥ षष्ठमादितस्त्रयोदशं सप्तैककाध्ययनं समाप्तम् ॥२-१-६-१३ ॥
अथ सप्तममन्योऽन्यक्रियाभिधमध्ययनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इह तु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थं नियुक्तिकृद् गाथापश्चार्धमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org