SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः से-तच्छब्दार्थे स च वाक्योपन्यासार्थः, यानि पुनरेवंभूतानि कुलानि जानीयात्, श्रुतस्कं०२ राङ्गवृत्तिः तद्यथा-इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नित्ये' प्रतिदिनं 'पिण्डः' पोषो दीयते, तथा अग्रपिण्डः-शाल्योदनादेः प्रथम- चूलिका १ (शी०) मुद्धृत्य भिक्षार्थ व्यवस्थाप्यते सोऽग्रपिण्डो नित्यं भागः-अर्धपोषो दीयते, तथा नित्यमुपार्द्धभागः-पोषचतुर्थभागः, पिण्डैष०१ तथाप्रकाराणि कुलानि 'नित्यानि' नित्यदानयुक्तानि नित्यदानादेव 'निइउमाणाईन्ति नित्यम् 'उमाणं'ति प्रवेशः स्वप- उद्देशः१ ॥३२६॥ क्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति-नित्यलाभात्तेषु स्वपक्षः-संयतवर्गः परपक्ष:-अपरभिक्षाचरवर्गः सर्वो भिक्षार्थ प्रविशेत् , तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च षट्रायवधः, अल्पे च पाके तदन्तरायः कृतः | दास्यादित्यतस्तानि नो भक्तार्थ पानार्थ वा प्रविशेन्निष्क्रामेद्वेति ॥ सर्वोपसंहारार्थमाह __एतदिति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थः, एतत्तस्य भिक्षोः 'सामग्य' समग्रता यदुद्गमोत्पादनग्रहणै|षणासंयोजनाप्रमाणेङ्गालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामग्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्सामग्र्यं सूत्रेणैव दर्शयति-यत् 'साथैः' सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सम्यगितः समितः, संयत इत्यर्थः, पञ्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत् , एवंभूतश्च सह हितेन वर्तत इति सहितः, सहितो वा ज्ञानदर्शनचारित्रैः, एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह-भगवतः सकाशाच्छ्रुत्वाऽहं ब्रवीमि, न तु स्वेच्छयेति। शेषं पूर्व ॥३२६॥ वदिति ॥ पिण्डैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy