SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः श्रुतस्कं०२ चूलिका १ भाषा०४ (शी०) ॥३८७॥ सोऽहं यदेतद्ब्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि-सर्वाण्य- प्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्तत्वमावेदितं, न ह्यमूर्तस्याकाशादेर्वर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ॥ साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह से भिक्खू वा० से जं पुण जाणिज्जा पुचि भासा अभासा भासिज्जमाणी भासा भासा भासासमयवीइकता च णं भासिया भासा अभासा ।। से भिक्खू वा० से जं पुण जाणिज्जा जा य भासा सच्चा १ जा य भासा मोसा २ जा य भासा सच्चामोसा २ जा य भासा असच्चाऽमोसा ४, तहप्पगारं भासं सावजं सकिरियं ककसं कडुयं निहुरं फरुसं अण्यकरि छेयणकरि भेयणकरिं परियावणकरिं उद्दवणकरिं भूओवघाइयं अभिकंख नो भासिज्जा ॥ से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा, जा य भासा सच्चा सुहुमा जा य भासा असच्चामोसा तहप्पगारं भासं असावजं जाव अभूओवघाइयं अभिकंख भासं भासिय ॥ (सू० १३३) स भिक्षुरेवंभूतं शब्दं जानीयात् , तद्यथा-भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् 'पूर्व प्रागभाषा 'भाष्यमाणैव' वाग्योगेन निसृज्यमानैव भाषा, भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फुटमेव कृतकत्वमावेदितं, मृत्पिण्डे दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्य व्याणि भाव भवति, तदनेन ताल दिव्याचारेण प्रागसतः शब्दस्य निष्पाद- ।। ३८७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy