________________
वदेदिति ॥ अपि च-स भिक्षु मान्तरं गच्छन् केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैव जानामीति वा ब्रूयादिति ॥ एवं यवसासनादिसूत्रमपि नेयमिति ॥ तथा कियहरे ग्रामादिप्रश्नसूत्रमपि नेयमिति ॥ एवं कियान् पन्था ? इत्येतदपीति ॥ किञ्च
से भिक्खू० गा. दू० अंतरा से गोणं वियालं पडिवहे पहाए जाव चित्तचिल्लडं वियालं प० पेहाए नो तेसि भीओ उ. म्मग्गेणं गच्छिज्जा नो मग्गाओ उम्मग्गं संकमिज्जा नो गहणं वा वणं वा दुग्गं वा अणुपविसिज्जा नो रुक्खंसि दूरुहिज्जा नो महइमहालयंसि उदयंसि कार्य विउसिज्जा नो वाडं वा सरणं वा सेणं वा सत्थं वा कंखिज्जा अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाणुगामं दूइज्जिज्जा ॥ से भिक्खू० गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेसि भीओ उम्मग्गेण
गच्छिजा जाव समाहीए तओ संजयामेव गामाणुगामं दूइज्जेज्जा ॥ (सू० १३०) | स भिक्षुामान्तरं गच्छन् यद्यन्तराले "गां' वृषभं 'व्यालं' दर्पितं प्रतिपथे पश्येत् , तथा सिंह व्यानं यावच्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भयान्नैवोन्मार्गेण गच्छेत् , न च गहनादिकमनुप्रविशेत् , नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत् , नापि शरणमभिकाजेत् , अपि त्वल्पोत्सुकोऽविमनस्क: संयत एवं गच्छेत् , एतच्च गच्छनिर्गतैर्विधेयं, गच्छान्तर्गतास्तु व्यालादिकं परिहरत्यपीति ॥ किञ्च-'से' तस्य भिक्षोामान्तराले गच्छतः 'विहति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः' स्तेमाः 'उपकरणप्रतिज्ञया' उपकरणार्थिनः समागच्छेयुः, न तद्भयादुन्मार्गगमनादि कुर्यादिति ॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org