SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३७७ ॥ वा, अह भिक्खूणं पु० जं तहप्पगाराई विरु० पञ्चंतियाणि दस्सुगा० जाव विहारवत्तियाए नो पवज्जिज्ज वा गमणाए तओ संजया गा० दू० ॥ ( सू० ११५ ) स भिक्षुग्रमान्तरं गच्छन् यत्पुनरेवं जानीयात्, तद्यथा - 'अन्तरा' ग्रामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां - चौराणामायतनानि - स्थानानि 'मिलक्खूणि'त्ति वर्वरशवर पुलिन्द्रादिम्लेच्छप्रधानानि 'अना - र्याणि' अर्द्धषडिशजनपदबाह्यानि 'दुः सञ्ज्ञाप्यानि ' दुःखेनार्यसञ्ज्ञां ज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि ' दुःखेन धर्मसञ्ज्ञो - | पदेशेनानार्यसङ्कल्पान्निवर्त्यन्ते 'अकालप्रतिबोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति ?, यतः केवली ब्रूयात्कर्मोपादानमेतत्, संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति- 'ते' म्लेच्छाः 'णम्' इति वाक्यालङ्कारे एवमूचुः, तद्यथा-अयं स्तेनः, अयमुपचरकः- चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः यावज्जीविताद्व्यपरोपयेयुः, तथा वस्त्रादि 'आच्छिन्द्युः' अपहरेयुः, ततस्तं साधुं निर्द्धादयेयुरिति । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेदिति ॥ तथा से भिक्खू० दूइज्जमाणे अंतरा से अरायाणि वा गणरायाणि वा जुवरायाणि वा दोरज्जाणि वा वेरजाणि वा विरुद्धरज्जाणि Jain Education International For Personal & Private Use Only श्रुतस्कं० २ चूलिका १ ईष० ३ उद्देशः १ ॥ ३७७ ॥ www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy