________________
श्रुतस्कं०२ चूलिका १ इयेष० ३ उद्देशः १
श्रीआचा- हित एषणीयो भवति तथाभूतो दुर्लभ इति, यत्र च ग्रामनगरादौ बहवः श्रमणब्राह्मणकृपणवणीमगादय उपागता अपरे राङ्गवृत्तिः चोपागमिष्यन्ति, एवं च तत्रात्याकीर्णा वृत्तिः, वर्त्तनं-वृत्तिः, सा च भिक्षाटनस्वाध्यायध्यानबहिर्गमनकार्येषु जनसङ्क(शी०) लत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावच्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स
साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यादिति ॥ एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति ॥ साम्प्रतं गतेऽपि वर्षा॥३७६॥ हाकाले यदा यथा च गन्तव्यं तदधिकृत्याह
अह पुणेवं जाणिजा-चत्तारि मासा वासावासाणं वीइक्ता हेमंताण य पंचदसरायकप्पे परिपुसिए, अंतरा से मग्गे बहुपाणा जाव ससंताणगा नो जत्थ बहवे जाव उवागमिस्संति, सेवं नच्चा नो गामाणुगामं दूइजिज्जा ॥ अह पुणेवं जाणिज्जा चत्तारि मासा० कप्पे परिवुसिए, अंतरा से मग्गे अप्पंडा जाव ससंताणगा बहवे जत्थ समण० उवागमिस्संति,
सेवं नया तओ संजयामेव० दूइजिज ॥ (सू० ११३) अथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु 'पर्युषितेषु' गतेषु गमनं विधेयं, तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैव स्थेयं, तत ऊर्द्ध यथा तथाऽस्तु न स्थेयमिति ॥ एवमेतद्विपर्ययसूत्रमप्युक्तार्थम् ॥ इदानी मार्गयतनामधिकृत्याह
॥३७६॥
SASE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org