________________
'प्रणताः' प्रहाः 'वीराः' परीषहोपसर्गकषायसेनाविजयात् वीथिः-पन्थाः महांश्चासौ वीथिश्च महावीथिः-सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः प्रहतः, तं प्रति प्रह्वाः वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्य तजनितमार्गविसम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्त्तयिष्यते ॥ उपदेशान्तर-18 माह-लोकं चेत्यादि, अथवा यद्यपि भवतो मतिर्ने क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात् , तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह
लोगं च आणाए अभिसमेच्चा अकुओभयं (सू० २१) अत्राधिकृतत्वादकायलोको लोकशब्देनाभिधीयते, तमकायलोकं चशब्दादन्यांश्च पदार्थान् 'आज्ञया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा-ज्ञात्वा, यथाऽप्कायादयो जीवाः, इत्येवमवगम्य न विद्यते कुतश्चिद्धेतोः-केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभयः-संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा 'अकुतोभयः' अपकायलोको, यतोऽसौ न कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाज्ञयाऽभिसमेत्यानुपालयेद्-रक्षेदित्यर्थः ॥ अप्कायलोकमाज्ञया अभिसमेत्य यत्कर्त्तव्यं तदाह
से बेमि णेव सयं लोगं अब्भाइक्खिज्जा णेव अत्ताणं अब्भाइक्खिजा, जे लोयं अ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org