________________
|-अमायं कुब्वमाणे'त्ति माया-सर्वत्र स्ववीर्यनिगूहनं, न माया अमाया तां कुर्वाणः, अनिगूहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तज्जातीयोपादानादशेषकषायापगमोऽपि द्रष्टव्य इति, उक्तं च -"सोही य उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठई"त्ति ॥ तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यादित्याह
जाए सद्धाए निक्खंतो तमेव अणुपालिज्जा, वियहित्ता विसोत्तिये ( सूत्र० १९) 'यया श्रद्धया' प्रवर्द्धमानसंयमस्थानकण्डकरूपया 'निष्क्रान्तः' प्रव्रज्यां गृहीतवान् 'तामेव' श्रद्धामश्रान्तो यावज्जीवम् 'अनुपालयेद्' रक्षेदित्यर्थः, प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तमौहूर्तिकः, नातः परं सक्लेशविशुद्ध्यद्धे भवतः, उक्तं च-"नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति सक्लेष्टुम् । नापि विशोढुं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः॥ १॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः॥ २॥" अवस्थितकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्ध्वमवश्यं पातात् , अयं च वृद्धिहान्यवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपि च प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणाम
शोधिश्चर्जुभूतस्य धर्मः शुद्धस्य तिष्टति. २ पुव्वसंजोयं इति पा.
आ. सू.८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org