________________
नमुत्सेचनं-कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रार्द्धान्तेन 'धावनं' वस्त्राद्युपकरण चर्मकोशकटाहादिभण्डकविषयम्, एवमादिकं बादरापकाये 'एतत्' पूर्वोक्तं 'समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेषणार्थः ॥ विभागतस्त्विदम् -
किंची सकाय सत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ ११४ ॥ किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किञ्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि, किञ्चिच्चोभयं उदकमिश्रा मृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥ शेषद्वाराणि पृथिवीकायवन्नेतव्यानि इति दर्शयितुमाह
सेसाई दाराई ताई जाईं हवंति पुढवीए । एवं आउछेसे निज्जुती कित्तिया एसा ( होइ ) ॥ ११५ ॥ 'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, 'एवम्' उक्तप्रकारेणापूकायोद्देशके 'निर्युक्तिः' निश्चयेनार्थघटना 'कीर्त्तिता' प्रदर्शिता भवतीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
Jain Education International
से बेमि जहा अणगारे उज्जुकडे नियायपडिवपणे अमायं कुव्वमाणे विया -
हिए (सू०१८ )
१ निकायं पडिवने इति पा.
For Personal & Private Use Only
www.jainelibrary.org