SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) अध्ययन उद्देशकः३ ॥४०॥ समासतो द्वेधाः- पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्तका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्राग्रशो भिद्यन्ते, ततश्च सङ्खयेयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यं, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनश्च शीतोष्णोभयभेदात्रिविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति ॥ प्ररूपणानन्तरं परिमाणद्वारमाह जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा ॥१०९॥ ये बादराप्कायपर्याप्तकास्ते संवर्तितलोकप्रतरासङ्खयेयभागप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयो 'विष्वक्' पृथगसङ्खयेयलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम्-बादरपृथिवीकायपर्याप्तकेभ्यो बादरापकायपर्याप्तका असङ्खयेयगुणाः बादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माष्कायापर्याप्तका विशेषाधिकाः सूक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सूक्ष्माप्कायपर्याप्ता विशेषाधिकाः॥ साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाहजह हथिस्स सरीरं कललावत्थस्स अहुणोववन्नस्स । होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ॥११०॥ ___ अथवा पर आक्षिपति-नाप्कायो जीवः, तल्लक्षणायोगात् प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाह-जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम् , एवमप्कायोऽपीति, यथा वा उदकप्रधानमण्डकमुदकाण्डकमधुनोसन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसञ्जातावयवमनभिव्यक्तचश्या ॥४०॥ Jain Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy