________________
णाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव पुढविसत्थं समारंभइ अण्णेहिं
वा पुढविसत्थं समारंभावेइ अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ (सू०१५) तत्र पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे 'भगवता' श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति, इदमुक्तं भवति-भगवतेदमाख्यातं-यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणः पृथिवीकार्य समारभन्ते, तानि चामूनि-अस्यैव जीवितस्य परिपेलवस्य परिवन्दनमाननपूजनार्थ, तथा जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं च स सुखलिप्सुर्दुःखद्विट् स्वयमात्मनैव पृथिवीशस्त्रं समारभते, तथाऽन्यैश्च पृथिवीशस्त्रं समारम्भयति, पृथिवीशस्त्रं समारममाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाकायकर्मभिरायोजनीयम् । तदेवं प्रवृत्तंमतेर्यद्भवति तदर्शयितुमाह
तं से अहिआए तं से अबोहीए से तं संबुज्झमाणे आयाणीयं समुट्टाय सोच्चा खलु भगवओ अणगाराणं इहमेगेसिं णातं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए इच्चत्थं गड्डिएलोए जमिणं विरूवरूवेहि सत्थेहिं पुढविकम्मसमारंभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेमि अप्पेगे
आ. सू.७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org