SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) चिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्य अध्ययनं १ विशिष्टतुपुष्पफलप्रदत्वेन स्पष्ट साधयिष्यते च, ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् सचित्ता पृथिवीति स्थितम् ॥ उद्देशकः२ ननु चाश्मलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमित्यत आह अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिडं । एवं जीवाणुगयं पुढविसरीरं खरं होई ॥ ८५ ॥ __ यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम् , एवं जीवानुगतं पृथिवीशरीरमपीति ॥ साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह जे बायरपजत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोया असंखिज्जा ॥८६॥ | तत्र पृथिवीकायिकाश्चतुर्दा, तद्यथा-बादराः पर्याप्ता अपर्याप्ताश्च तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च, तत्र ये बादराः5 पर्याप्तकास्ते संवर्तितलोकप्रतरासंख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि राशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तम्-"सव्वत्थोवा बादरपुढविकाइया पजत्ता, बादरपुढविकाइया अपजत्ता असंखेजगुणा सुहुमपुढविकाइया अपजत्ता असंखेजगुणा सुहुमपुढविकाइया पज्जत्ता असंखेज्जगुणा" ॥ प्रकारान्तरेणापि राशित्रयस्य परिमाणं दर्शयितुमाह IDI||३१॥ १ सर्वस्तोका बादरपृथ्वीकायिकाः पर्याप्ताः बादरपृथ्वीकायिका अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः पर्याप्ता असंख्येयगुणाः. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy