________________
साधानं 'प्रेक्षमाणः' पर्यालोचयन न पुनर्भगवतः कथंचिद्दौर्मनस्यं समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति ॥ किं च-ज्ञात्वा
हेयोपादेयं स महावीरः कर्मप्रेरणसहिष्णुर्नापि च पापकं कर्म स्वयमकार्षीत् न चाप्यन्यैरचीकरत न च क्रियमाणमपरैरनुज्ञातवानिति ॥ किं च
गामं पविसे नगरं वा घासमेसे कडं परट्टाए । सुविसुद्धमेसिया भगवं आयतजोगयाए सेवित्था ॥ ९॥ अदु वायसा दिगिछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए ॥ १०॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा। सोवागमूसियारिं वा कुकुरं वावि विट्रियं पुरओ ॥ ११॥ वित्तिच्छेयं वजन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परक्कमे भगवं अहिंसमाणो
घासमेसित्था ॥ १२॥ ग्राम नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयेत् , परार्थाय कृतमित्युद्गमदोषरहितं, तथा सुविशुद्धमुत्पादनादोषरहितं, तथैषणादोषपरिहारेणैषित्वा-अन्वेष्य भगवानायतः-संयतो योगो-मनोवाकायलक्षणः आयतश्चासौ योगश्चायतयोगो -ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं ग्रासैषणादोषपरिहारेण से
SCKAALCRECCASCCSCRECORE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org