________________
दर्शयति-सच भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलपति, न द्रव्योषधाद्यपयोगतः पीडोपशमं प्रार्थयतीति॥ एतदेव दर्शयितुमाह-गात्रस्य सम्यक् शोधनं संशोधनं-विरेचनं निःसोत्रादिभिः तथा वमनं मदनफलादिभिः, चशब्द उत्तरपदसमुच्चयार्थो, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्नानं चोद्वर्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य-भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं 'परिज्ञाय' ज्ञात्वा दन्तकाष्ठादिभिदन्तप्रक्षालनं च न कल्पत इति ॥ किं च-विरतो' निवृत्तः केभ्यो?-'ग्रामधर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो 'रीयते' संयमानुष्ठाने पराक्रमते, 'माहणे'त्ति, किंभूतो भगवान् ? असावबहुवादी, सकृद्ध्याकरणभावाद्बहुशब्दोपादानम् , अन्यथा हि अवादीत्येव ब्रूयात् , तथैकदा शिशिरसमये स भगवांश्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति ॥ किं च-सुब्व्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेवातापयति, कथमिति दर्शयति-तिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, 'अर्थ' आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण-स्नेहरहितेन केन?-'ओदनमन्थुकुल्माषेण' ओदनं च-कोद्रवौदनादि मन्थु च-बदरचूर्णादिकं कुल्माषाश्च-माषविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा ओदनम-18 न्थुकुल्माषमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति ॥ एतदेव कालावधिविशेषणतो दर्शयितुमाह.. एयाणि तिन्नि पडिसेवे अट्ट मासे अ जावयं भगवं । अपि इत्थ एगया भगवं अद्ध
मासं अदुवा मासंपि ॥ ५॥ अवि साहिए दुवे मासे छप्पि मासे अदुवा विह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org