________________
श्रीआचाराङ्गवृत्तिः (शी०)
उपधा०९ उद्देशका
थाऽसौ संग्राममूर्द्धनि परानीक जित्वा तत्सारगो भवति, एवं भगवानपि महावीरस्तत्र लाढेषु परीषहानीकं विजित्य | पारगोऽभूत्, किं च-तत्र' लाढेषु विरलत्वाद्रामाणां क्वचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि भगवता ॥ किं च
उवसंकमन्तमपडिन्नं गामंतियम्मि अप्पत्तं । पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति ॥ ९॥ हयपुवो तत्थ दण्डेण अदुवा मुट्टिणा अदु कुन्तफलेण । अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥ १०॥ मंसाणि छिन्नपुव्वाणि उटुंभिया एगया कायं । परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिंसु ॥ ११॥ उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु । वोसट्टकायपणयाऽऽसी दुक्खसहे भगवं
अपडिन्ने ॥ १२॥ 'उपसङ्कामन्तं' भिक्षायै वासाय वा गच्छन्तं, किंभूतम्-'अप्रतिज्ञं' नियतनिवासादिप्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्मादामात्प्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः-इतोऽपि स्थानात्परं दूरतरं स्थानं 'पर्येहि' गच्छेति ॥ किं च-तत्र ग्रामादेर्बहिर्व्यवस्थितः पूर्व हतो हतपूर्वः, केन?-दण्डेनाथवा मुष्टिनाऽथवा कुन्तादिफलेनाथवा लेष्टुना कपालेन-घटखपरादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः-पश्यत यूयं किंभूतोऽयमित्येवं कलकलं चक्रुः ॥ किं
4SCARRORECACACCE
॥३११॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org