SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३०९ ॥ शीतजनितं दुःखस्पर्शमनुभवन्ति, आर्त्तध्यानवशगा भवन्तीत्यर्थः तस्मिंश्च शिशिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वे 'अनगाराः' तीर्थिकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति - अङ्गारशकटिकामन्वेषयन्ति, प्रावारादिकं याचन्ते यदिवाऽनगारा इति पार्श्वनाथतीर्थप्रव्रजिता गच्छ्वासिन एव शीतार्दिता निवातमेषन्ति - घङ्गशालादिकावसतीर्वातायनादिरहिताः प्रार्थयन्ति ॥ किं च-इह सङ्घाटीशब्देन शीतापनोदक्षमं कल्पद्वयं त्रयं वा गृह्यते, ताः सङ्घाटीः शीतार्दिता वयं प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रत्रजितास्त्वेधाः समिधः काष्ठानीतियावद् एताश्च समादहन्तः शीतस्पर्श सोढुं शक्ष्यामः, तथा संघांट्या वा पिहिताः - स्थगिताः कम्बलाद्यांवृतशरीरा इति, किमर्थमेतत्कुर्वन्तीति दर्शयति-यतोऽतिदुःखमेतद्-अतिदुःसहमेतद्यदुत हिमसंस्पर्शाःशीतस्पर्शवेदना दुःखेन सह्यन्त इतियावत् ॥ तदेवमेवंभूते शिशिरे यथोक्तानुष्ठानवत्सु च स्वयूथ्येतरेष्वनगारेषु यद्भ|गवान् व्यधात्तद्दर्शयितुमाह- 'तस्मिन् ' एवंभूते शिशिरे हिमवाते शीतस्पर्शे च सर्वकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यासयति-अधिसहते, किंभूतोऽसौ ? - 'अप्रतिज्ञो' न विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा, काध्यासयति ? - 'अधो विकटे' अधः- कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि - रागद्वेषविर - हाद्रव्यभूतः कर्म्मग्रन्थिद्रावणाद्वा द्रवः- संयमः स विद्यते यस्यासौ द्रविकः, स च तथाऽध्यासयन् यद्यत्यन्तं शीतेन बा - ध्यते ततस्तस्मात् छन्नान्निष्क्रम्य बहिरेकदा रात्रौ मुहूर्त्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा समतया वा व्यवस्थितः सन् तं शीतस्पर्श रासभदृष्टान्तेन सोढुं शक्नोति - अधिसहत इति ॥ एतदेवोद्देश कार्थमुपसंजिहीर्षु Jain Education International For Personal & Private Use Only उपधा० ९ उद्देशकः२ ॥ ३०९ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy