________________
श्रीआचा राङ्गवृत्तिः
(शी०)
॥ ३०८ ॥
को इत्थ? अहमंसित्ति भिक्खु आहद्दु । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाई ॥१२॥ इहलोके भवा ऐहलौकिकाः - मनुष्यकृताः के ते? - ' स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलौकिकाः, तद्विपर्यस्तास्तु पारलौकिकाः, 'भीमा' भयानका 'अनेकरूपाः' नानाप्रकाराः, तानेव दर्शयति-अपि सुरभि - गन्धाः - स्रक्चन्दनादयो दुर्गन्धाः - कुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, तथा क्रमेलकर सिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति' अधिसहते, 'सदा' सर्वकालं सम्यगितः समितः - पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान- दुःखविशेषानरतिं संयमे रतिं चोपभोगाभिष्वङ्गेऽभिभूय - तिरस्कृत्य 'रीयते' संयमानुष्ठाने व्रजति, 'माहणे' त्ति पूर्ववद् 'अबहुवादी' अबहुभाषी, एकद्विव्याकरणं क्वचिन्निमित्ते कृतवानिति भावः ॥ 'स' भग| वानर्द्धत्रयोदश पक्षाधिकाः समा एकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थितः सन् 'जनैः' लोकैः पृष्टः, तद्यथा - को भवान् ? किमत्र स्थितः ? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णीं भावमभजत्, तथोपपत्याद्या अप्येकचरा - एकाकिन एकदा-क | दाचिद्रात्रावह्नि वा पप्रच्छुः, अव्याहृते च भगवता कपायिताः ततोऽज्ञानावृतदृष्टयो दण्डमुष्ट्यादिताडनतोऽनार्यत्वमाचरन्ति, भगवांस्तु तत्समाधिं प्रेक्षमाणो धर्म्मध्यानोपगतचित्तः सन् सम्यक्तितिक्षते किंभूतः ? - 'अप्रतिज्ञो' नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः - मध्ये कोऽत्र व्यवस्थितः ?, एवं सङ्केतागता दुश्चारिणः पृच्छन्ति कर्म्म करादयो वा तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भ्रमयां
Jain Education International
For Personal & Private Use Only
उपधा० ९
उद्देशकः२
॥ ३०८ ॥
www.jainelibrary.org